SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ जिनशतकम् । प्रोच्चैर्निष्पाद्यतेऽमुं स्मयमिव वहता धार्यते वैजयन्ती ___ येनासौ युष्मदाधेर्वधकरणपटुर्बुद्धसक्तः करोऽस्तु ॥ २० ॥ श्रद्धालोर्यो विधत्ते विविधबुधधृतीरेधयन्बोधवृद्ध्या धैर्य धामद्धिमिद्धां धनमपनिधनं शुद्धबुद्धिं धरित्रीम् । व्याधिध्वंसं पुरंध्रीर्जितविबुधवधर्मवृद्धेः समृद्धिं धर्मोक्तौ वः स धत्तां धियमधिकधृति प्रोद्धृतो बौद्धहस्तः ॥ २१ ॥ ज्येष्ठासक्तं सचित्रं गुरुमहिमपुनर्वस्खपोढात्मकं नो नित्यं सत्कृत्तिकं यजनितवृषतुलं व्यक्तमीनं सकुम्भम् । व्योमेवाभाति किं तु प्रविरहितमलं शून्यवृत्त्यात्युदात्तं छिन्द्यात्कृच्छ्राणि तद्वः सुमृदु करतलं निर्वृतेरीश्वरस्य ॥ २२ ॥ दारियाद्रेर्महेन्द्रप्रहरणसमतां यो विभेदे बिभर्ति __ प्राकाश्ये विश्ववेश्मोदरविवरगतस्यार्थजातस्य दीपः । हस्तालम्बोऽवलम्बो गुरुतरनरकागाधकूपप्रपाते __पीतात्पातात्स हस्तस्तमसि तततमे वो विनेतुस्त्रिलोक्याः ॥ २३ ॥ यः प्रोद्यद्विद्रुमद्युत्कररुहमणिमन्मस्तकाङ्गुल्यहीन्द्रः सत्सत्त्वोऽपारिजातः पुनरसुरैतनुः साधुमुक्ताफलश्रीः । चक्रे हस्तः समुद्रो दशशतनयनेनोन्मुंदा मूर्ध्नि मेरोः कृच्छ्रोच्छ्रायं छिनत्तु प्रतिहतसुषमं वः स जेतुः स्मरस्य ॥ २४ ॥ सत्स्कन्धाबद्धमूलाँवृजितभुजलतालग्नमम्लानरूपं बिभ्रद्वन्धूककान्तिं करतलमचलं पल्लवभ्रान्तिभाग्भिः । १. जयपताका का मया सह स्पर्धेत्येवंरूपा. २. बुद्धो जिनस्तत्संबन्धी. ३. धर्मोक्तौ धर्मकथने प्रोद्धृत ऊवीकृतः. ४. ज्येष्ठेषु वृद्धेष्वेवोपदेशार्थमासक्तम्. ५. शङ्खचक्रादि चित्रसहितम्. ६. गुरुमहिमा यस्य. ७. पुनःपुनरपि वसुना तेजसा अपोढात्मकं रहितात्मकं नो. ८. सती शोभना कृत्तिश्चम यस्य. ९. वृषतुलामीनकुम्भा रेखात्मकाः. १०. शून्यवृत्त्या अलमत्यर्थं प्रविरहितम्, व्योमपक्षे तु ज्येष्ठाचित्रागुरुपुनर्वसुकृत्तिकावृषतुलामीनकुम्भशब्दाः प्रसिद्धार्थाः. व्योम शून्यं भवति. ११. अस्खलितः. १२. रक्षतात्. १३. अपगतशत्रुसमूहः पारिजातरहितश्च. १४. असून्रातीत्यसुरा प्राणप्रदा तनुर्यस्य । पक्षे सुरारहितदेहः. १५. मुद्रासहितः सागरश्च. १६. उद्गतहर्षेण, १७. अजिता सरला. ६ का० स० गु० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy