SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ६० काव्यमाला। मुद्राभिर्मुद्रितोऽलंकरणविधिकृता वज्रिणाहत्करो यः सोऽहांस्यह्राय हन्तुं प्रविहितविनतेर्भक्तिभाजो जनस्य ॥ १५ ॥ स्रष्टाजस्रं श्रियो यः शिवपुरपंथिकासद्महानोचितायाः कोषाधीशैर्निशान्ते नमुचिरिपुगिरासद्महाँ नो जितायाः । आनीयानीय नित्यं परमगुरुकरः पर्वशॉलीक्षयाय प्राप्तेर्हेतुः प्रधानो भवतु स भवतां पैर्वशालीक्षयाय ॥ १६ ॥ युक्ता यर्मिंनृजिम्ना मंसृणितपरुषोऽग्रेऽर्धचन्द्रायमाणा नङ्गुल्यः संदधानाः सघृणिनखमणीन्द्राघिमोद्धखरूपाः । पुष्पेषोर्निर्जितस्येषव इव विषमाः संग्रहीता विभान्ति क्षेपीयः पातकान्तं प्रजनयतु स वः पाणिरहद्भुजस्थः ॥ १७ ॥ ब्रनेनापीद्धधाम्ना परिहृतमिदमालोक्य पातालमूलं सव्यालत्वात्करालं तिमिरभरभृतं भीरुणेवेति यस्य । वीक्ष्यन्तेऽधो विविक्षन्त्य इव ननु भुवो भाजनार्थ नखाभाः स्रस्तस्य ध्यानकाले दलयतु दुरितं वः स जैनेन्द्रपाणिः ॥ १८ ॥ यो नान्वीतो जडिम्ना नयति न कुमुदं नंदधुं दीप्यमानो __ न ज्योतिानियुक्तोऽहनि मलिनतम लक्ष्म धत्ते न मध्ये । सोल्लासं नो नदीनं जनयति लभते धाम दोषोदयान्नो ___ सोऽपूर्वो यत्नखेन्दुश्वरमंतनुशयो योग्यतां वो युनक्तु ॥ १९ ॥ अर्थव्यक्तिं विविक्तां विदधति बहवो यां करा हारिदश्वा विश्वमिंस्तीवरूपाः प्रशममितवतैकाकिना सा मयापि । १. शिवपुरपथिकाश्च तेऽसमानोऽनगारास्तेषां हानं त्यागस्तस्योचिताया योग्यायाः. २. इन्द्रवचनेन. ३. असहा नो किं तु सद्महाः सत्तेजोविशिष्टः करः. ४. पूरितायाः. ५. पर्वयुक्तः. ६. ईक्षया दर्शनेनायस्य शुभावह विधेः प्राप्तेर्हेतुः ७. पर्वाण्युत्सवानि श्यन्ति तनूकुर्वन्तीति पर्वशा विपक्षास्तेषामाली पतिस्तस्याः क्षयाय. ८. ऋजुत्वेन. ९. श्लक्ष्णप्रन्थयः १०. दीर्घत्वेन प्रशस्तरूपाः. ११. पञ्चसंख्याकाः. १२. क्षिप्रतरम. १३. कुत्सितां मुदम्. १४. समुद्रम् । (पक्षे) दीनं न. १५. चरमतनुर्जिनस्तस्य हस्ता. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy