SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ५९ जिनशतकम् । साक्षाद्दोष' श्रितोऽपि श्रमणगणगुरोर्बोधयेऽहं महिने तीव प्रेकन्सदोऽन्तः प्रणिगदति करो यः स वो वामहास्तु ॥१०॥ स्निग्धं मूर्भोऽलिनीलद्युतिकचनिचयं प्रोद्धरन्धैर्यराशे निर्मूलं लोकभर्तुचरणकृतमते ति यः पाणिपद्मः । अन्तर्वर्त्यतिकृत्किं शिति कलिलमिदं कर्षतीहैष एवं देवैरारेक्यमाणो भवदशिवशताशर्म स साक् Uणातु ॥ ११ ॥ दक्षं दीक्षां जिघृक्षोर्मदनशरनुदो देहतो दीप्रदीप्तीः ___ सत्वर्णालंकृतीर्यः सरससुमनसः कल्पवृक्षादिवोच्चैः । पाणिः प्रोत्तारयन्वः सरसिरुहरुचिः सन्नखांशुप्रसूनो मालाकारायतेऽसौ स्यतु कुमतिमलं प्राणमत्कंधराणाम् ॥ १२ ॥ यः कालः शोणिमानं दधदपि निधने कल्मषस्योल्बणस्य द्रष्टणां दृष्टमात्रः सरुगपि नितरां नीरुगात्माप्तसक्तः । लक्ष्मीदानेन तृष्णाछिदपि तनुमतामग्रहस्तोऽजडोऽसौ मुष्याद्दोषानशेषान्कलुषितवपुषां वो विरुद्धात्मकोऽपि ॥ १३ ॥ मथ्यप्यस्मिन्मयाँरौ प्रभवति भुवने भूभृतः किं कराणां पातैरुत्तापयन्ति क्षितिमिर्तंकि भवद्ममावादिवालम् । रक्तः शक्त्या स्फुरन्वो निगडित इव यो भूषणालानाले व्याधेरव्यात्स पाणिः सदुपलवलयामुक्तितो मुक्तिींजः ॥ १४ ॥ मा भूदन्तःपुरस्त्रीकठिनकुचभिदाकारिणी रोगभाक्त्वा सक्तैतस्मिन्नखाली स्मरविकृतिहृतः सर्वदास्यतेकीव । १. भुजम्. २. जिनस्य. ३. प्रतिकूलहन्ता. ४. चरणं प्रव्रज्या. ५. कृष्णम्. ६. पापम्. ७. आशामानः. ८. हिनस्तु. ९. शीघ्रं यथा स्यात्. १०. जिनस्य. ११. प्रकर्षणानमन्ती कंधरा येषाम्. १२. आप्तो जिनस्तस्य सक्तस्तदीयः. १३. गर्वनाशके. १४. इतकि इति अकजागमः. १५. भवजायमानो भूम्रा बाहुल्येन यो भामः क्रोधस्तस्मादिव. १६. ग्रहणकाले. १७. सन्तः शोभना उपला मणयो येषु तानि वलयानि तेषामामुक्तिः परिधानं ततः. १८. जिनस्य. १९. रागो मन्मथासक्तिरपि. २०. इतीव । प्राग्वदकजागमः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy