SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ५८ काव्यमाला। गीर्वाणैर्निर्मितोरुिहबहलदलश्यामलामीशुजालै र्जीमूतैः प्रावृषण्यैरिव नभसि सदस्यातते यः समन्तात् । विद्युत्पुञ्जायमानः स्फुरदरुणरुचा दृश्यते त्रैदशैर्व स्त्राणाय स्तात्स हस्तस्तैनुरहितजितः साधु बोधोद्यतोऽध ॥ ५॥ चञ्चच्चकोऽप्यकृष्णो विवरयुतर्तेलोऽप्यस्तरन्ध्रानुषङ्गः सत्कार्योऽप्यस्तकृत्यो विलसितकमलोऽप्यङ्ग दोषाकरो नो। यः सार्वज्ञः सुपर्वा शय इति महिमापीक्ष्यते नो विरोधी वध्यात्स ध्यानवृद्धोर्निधनकरमरं वस्तु वः स्तूयमानः ॥ ६ ॥ द्वारं व्यस्तार्गलं वः परमपदपुरो दर्शयाम्येत यूयं __ श्रोतृञ्जन्तूनिवैवं गदितुमतिगुरुभ्राम्यतीतस्ततो यः । पर्षद्युत्कर्षवत्यां प्रवचनकरणानेहसि श्रीजिनस्य ___ स्ताद्धस्तो वः प्रशस्तः प्रणिपतनकृतावादृतानां स वृद्ध्यै ॥ ७ ॥ वजिन्वजं समस्ति प्रकटतरमिदं मेऽपि मा गर्वितोऽभू यज्ञ क्षिप्रं जहीहि त्वमपि निधिमदं शङ्खपद्मौ यतः स्तः । अम्लानौ मय्यपीमाविति परिहसतीवोच्छलद्भिर्मयूखै याख्यायां यन्नखेभ्योऽखिलसुखकृदसावस्तु वो जैनहस्तः ॥ ८ ॥ जेताजावूर्जितौजा विजयिजविगजभ्राजि सद्वाजिराज्यां तेजोभाजां जैजौर्जाविजितजनजितां खौजसा दुर्जनानाम् । योऽन्यजोऽजातजाड्यो जगति जिनशयो जम्भजित्पूजितौजा अज्यायो जन्मबीजं जयतु सरजसौर्जित्यजित्सोऽञ्जसा वः ॥ ९॥ भित्त्वा. दोषानुषङ्गं जनवनजवनं बोधयामीद्धधाम्ना___ मोत्कर्ष सूर्य कार्षीरिति मम पुरतो दर्पतो हन्त यत्तत् । १. उर्वीरुहोऽत्राशोकः. २. त्रिदशसमूहै:. ३. मदनजयिनः. ४. हस्तपक्षे विवराः पक्षिश्रेष्टा हंसादयस्तच्चिह्नाङ्कितः. ५. सत्कारार्हः. ६. कमलो हरिणः. ७. शयो हस्तः, ८. हे कुबेर. ९. 'जजि युद्धे । जजन्तीति जजा योधास्तेषामूर्जा बलं तेनाविजितं जनं जयन्ति ये तेषाम्. १०. न विद्यते न्यब्ज उपतापो रोगो वा यस्य. ११. हस्तः, १२. अश्रेष्ठम्. १३. कर्म. १४. सह रजसा वर्तन्ते सरजसाः सरागा अज्ञानिनो मिथ्या दृष्टयस्तेषामौर्जित्यं बलवत्त्वं जयतीति सः. १५. जनरूपकमलवनम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy