________________
जिनशतकम् ।
प्रत्ताप्रान्तप्रसादान्प्रणमदसुमतां यत्क्रमान्सत्प्रणम्या
प्राणिप्राणप्रियाणि प्रवितरतु जिनः स प्रशान्तप्रयासम् ॥ २४ ॥ उज्जैम्भाम्भोजगर्भश्रितमिति परमेष्ठीयते निष्ठितार्थं
त्रैलोक्यत्रासन्ध्या नरकरिपुतयानन्तमूर्तीयते वः । सद्भूतिभ्राजितत्वाद्वृषभगतितया चाद्विजेशायते य
त्पादाम्भोजं स सद्यो भवतु भवभयाभोगभित्केवेलीशः ॥ २५ ॥ इति श्रीजम्बूकविविरचिते जिनशतके जिनपादवर्णनं नाम प्रथमः परिच्छेदः ।
कोषाढ्येऽपि द्रढिम्ना विरहितमहिमन्युत्कटे कण्टकैर्ते
सक्ते व्यक्तं जडौंधैः सुचिरमनुचितं सद्रजस्यत्र वस्तुम् । पद्मं पद्मा खसद्मेत्युदितविपदिव प्रोज्झ्य यत्रानुलिल्ये
छेको दानैच्छलेन त्रिजगदधिपतेर्वः पुनीतात्स हस्तः ॥ १ ॥ प्रध्वस्ताशर्मधर्मप्रणयन विधये व्यापृतः प्राणिपूगाकालव्यालावलुप्तौ प्रतिसमवसृतौ भ्रान्तिमन्तस्तनोति । यः संहर्तुं विषार्ति किमयमिह चलत्येवमाखण्डलस्य
ख्यातं सौख्यं स दत्तां जिनैवृषभनरेन्द्रस्य पाणिर्द्रुतं वः ॥ २ ॥ भाभिर्योऽम्भोजशोभामभिभवति भृशं विश्रदुद्भूतभव्यं
भूषाभावं सभाया भवभवभय भिद्भूरिभीभारभाजाम् । भर्तुर्भद्रस्य पाणिस्त्रिभुवनभवनोद्भासनोद्भूतभूते
५७
भूयाद्भूत्यै स भूतेभुविभु विभवाधीश भूभर्तृभाजः ॥ ३ ॥ कल्पान्तेऽनल्पभासः प्रलयमसुमतां यूयमुच्चैर्विघातं
कृत्वायुर्गोत्रनाम्नामपि कुरुत किल द्वादशैकत्वमेत्य । नित्यं पञ्चापि कुर्मो वयमिति हसितार्का इवोद्भान्ति भासा
प्रज्ञप्तौ यन्नखाः स्तात्स शिवशतकरोऽर्हत्करः प्रोल्लसन्वः ॥ ४ ॥
१. शिष्टाशेष प्रयोजनम्. २. केवलं सर्वद्रव्यपर्यायग्राहक मप्रतिहतं ज्ञानं तद्वतामीशो जिनः . ३. चतुरा. ४. सांवत्सरिक महादानव्याजेन. ५. जिनवृषभ एव नरेन्द्रो विषवैद्यः ६. लक्ष्म्याः. ७. ऋभवो देवास्तद्विभुरिन्द्रः विभवाधीशः कुबेर: भूभर्तारो राजानः तान्भजते तस्या भूतेः ८. जिनपक्षे प्रकृष्टो लयो मोक्षः ९. व्याख्यायाम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org