________________
५६
काव्यमाला। प्रख्यातादच्युतश्रीवरवसतितया शेषकान्त्योपगूढा
सन्मीनाक्षीरनीरेश्वरत इव यदङ्मयोर्युगान्निर्गता भा। वेलेव प्लावयन्ती नखमणिकिरणोन्मिश्रिता श्रीमदन.
श्रेणीं विश्वंभरावद्भवदनभिमतं तीर्थपोऽसौ भिनत्तु ॥ १९ ॥ मा पप्तत्तत्यभावात्कलिकलिलभराक्रान्तमेत
त्पातालापारपङ्के त्रिभुवनभवनं द्रागितीवावधार्य । त्वष्ट्रावष्टम्भनार्थ प्रचुरभरसहौ निर्मिमाते यदी
वज्रस्तम्भाविवासौ निखिलसुखखनीर्वो विधत्तां यतीन्द्रः ॥ २० ॥ दुर्गे खर्गापवर्गाध्वनि संदरितया स्यन्दनः संस्यदाग
स्तिग्मांशूतप्तजन्तून्प्रति वरविटपी छायया संयुतत्वात् । सद्भूत्याहूतिमन्त्रः सति धननिधने व्यक्तवर्णत्वतो वः
सिद्ध्यध्वन्यध्वनीनाववतु स मुनिपः पादपद्मो यदीयः ॥ २१ ।। यत्पादैः पारिजातक्षितिरुहमहिमा हानिमानीयतेऽहि
भ्रातृव्यायाप्ययोषाः प्रमदभरनमन्मस्तकस्रस्तदानः । द्राग्भूयो भूषयद्भिः शुचिरुचिनखरुङ्मञ्जरीकर्णपूरैः ___ पापाकूपारवारिप्रतरणपटुतां तीर्थकृद्धः स दध्यात् ।। २२ ।। सर्वोभृित्प्रबर्हप्रणतिपरशिरःश्रेणिचूडामणिद्यु
संदोहालीढमूढम्रदिम नखमयूखोल्लसत्केसरालि । बल्ग्वमुल्यनपत्रं सकमलममलं पादयुग्मं यदीयं
भात्यादित्योसमिश्रं नलिनमिव स वोऽवद्यमर्हन्हिनस्तु ॥ २३ ॥ प्राज्यप्रौढप्रमादप्रतिभटनिधनप्राप्तदीप्रप्रतापा
प्रोच्चैः प्रीतिं प्रयान्ति प्रतिकलममलान्प्राणिनः प्रेक्षमाणाः । १. शेषनागस्य कान्त्या अशेषया पूर्णया कान्त्या च. २. सन्तौ विद्यमाना मीना लाञ्छनरूपा यत्र. ३. क्षीरसमुद्रात्. ४. पादतलवर्तिनी लाञ्छनरूपां पद्मपति विश्वम्भरावद्भमिवत्. ५. तपश्चरणाभावात्. ६. नरककर्दमे त्रिभुवनरूपं गृहं मा पप्तन्न पततु. ७. विधात्रा. ८. सच्चक्रयुक्ततया. ९. सह स्यदेन वेगेन यदागः पापं तदेव तिग्मांशुः, १०. अहिर्वृत्रासुरस्तस्य भ्रातृव्यः शत्रुरिन्द्रस्तस्यायाप्या अनवद्या योषाः स्त्रियोऽप्सरसः. ११. धुत्संदोहो दीप्तिसमूहः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org