SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ जिनशतकम् । शोभामम्भोरुहाणामपहरति करोत्युद्धवं कौशिकस्या नुष्णैः पुष्णाति पादैः कुमुदमसुमतां नोपतापाय दृष्टेः । प्राज्याजेयप्रतापं सततमिनतया युक्तमप्यन्यरूपं युग्मं यत्पादयोः स्तात्स भवदविभवाभावकृतीर्थनाथः ॥ १४ ॥ दूरे दूरेपसो वो वसतिमसुभृतां साधयन्तौ धेयन्तौ वारी वारीतिमी नतससुरमहादेवराजौ बैराजौ । यस्यायस्याप्तिहेतू जयमुपनयतो मोहितानां हितानां दध्यादध्यामतेजाः स भुवि जिनवरोऽनन्तमोदं तमोदम् ॥ १५ ॥ कृत्वाधः पादयोर्मां निरतिशयशमश्रीसमालिङ्गिताङ्गः स्वस्थ स्तिष्ठत्यनिष्टः कथमयमधुनेतीव संचिन्त्य सृष्टा । ऊर्ध्वं बीणाशनिर्वा मृदुहृदयभिदे भाति रांगेण गाढं यस्य प्रेङ्खन्नखालीद्युतिरतनुरतिं रातु स श्रीजिनो वः ॥ १६ ॥ चार्वाचारोक्तिचश्च प्रवचनचतुराचार्यचक्रस्य चश्च नोयेताचण्ड रोचीरुचिरुचिररुचिर्यस्य वाचां प्रपचैः । उच्चैश्चञ्चूर्यमाणश्चरणगुणचयैश्चारुचिचार्चितार्च श्वेतः शौचं चिनोतूचितमचलमसौ चारुचेष्टो जिनो वः ॥ १७ ॥ पद्भ्यां भूभृद्गुरुभ्यां भ्रमति भृशमभी शयन्हेलयायं कोsस्मन्मूर्धोद्धृतां गामिति फणिसमितेः सक्रुधः क्रोधवहेः । ज्वाला निर्यात्यधस्तात्किमिति सुजनता शङ्कते लोकयन्ती भव्यानव्याद्भयेभ्यो निखिलनखरुचो यस्य योगीश्वरोऽसौ ॥ १८ ॥ ५५ १. इन्द्रस्योलूकस्य च. २. कोः पृथिव्या मुदम्. ३. सूर्यत्वेन च. ४. दुष्टं च तद्रेपः पापं तस्माद्दूरे स्थानेऽसुमतां वसतिं साधयन्तौ खर्गप्रदावित्यर्थः ५. वारीव जलमिव अरीतिं शत्रूपद्रवं धयन्तौ पिबन्तौ नाशयन्तावित्यर्थः ६. श्रेष्ठयुद्धे मोहितानां हितानां भक्तानां जयमुपनयतः ७. यस्यानी आयस्य लाभस्याप्तिहेतू. ८. अकृशतेजाः . ९. ऊर्ध्व क्षिप्ता. १०. बाणावलीव. ११. कामेन. १२. यस्य चरणगुणचयो नोच्येत वक्तुं न शक्येत. अतिप्राचुर्यात्. १३. चारुचित्तैरिन्द्रादिभिरर्चिता अर्चा मूर्तिर्यस्य स जिनः . १४. पातालमुद्भिय. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy