SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तागमस्तवः। जीवाजीवनिरूपिद्वेधाप्रतिपत्तिनवककमनीयम् । जीवाभिगमाध्ययनं ध्यायेमासुगमगमगहनम् ॥ २३ ॥ जीवाजीवनिरूपिण्या या द्वेधा द्विप्रकाराः प्रतिपत्तयोऽधिकारास्तासां नवकेन रम्यम् । असुगमा विषमा ये गमास्तैर्गहनं जीवाभिगमाध्ययनं स्थानाङ्गोपाङ्गं ध्यायेम । जीवानामुपलक्षणादजीवानामप्यभिगमो ज्ञानं यत्र तत् ॥ षत्रिंशता पदैर्जीवाजीवभावविभावनीम् । प्रज्ञापनां पनायामि श्यामार्यस्यामलं यशः ॥ २४ ॥ षट्त्रिंशता पदैरधिकारैर्जीवाजीवभावप्ररूपिकां प्रज्ञापनां समवायाङ्गोपाङ्गं पनायामि स्तौमि । श्यामार्यस्य कालिकाचार्यस्यामलं यशः । तत्र तदधिकारात् ॥ विवृताद्यद्वीपस्थितिजिनजनिमहचक्रिदिग्विजयविधये । भगवति जम्बुद्वीपप्रज्ञप्ते तुभ्यमस्तु नमः ॥ २५ ॥ हे भगवति, जम्बूद्वीपप्रज्ञप्ते, पञ्चमाङ्गोपाङ्ग......... विवृता प्रकटिता आद्यद्वीपस्य स्थितिर्जिनजन्ममहश्चक्रिणो दिग्विजयविधिश्च यया सा । तुभ्यं नमोऽस्तु ॥ प्रणमामि चन्द्रसूर्यप्रज्ञप्ती यमलजातके नव्ये । गुम्फवपुषैव नवरं नातिभिदार्थात्मनापि ययोः ॥ २६ ॥ चन्द्रसूर्यप्रज्ञप्ती चन्द्रसूर्यविचारप्रतिपादके यमलजातके सहजाते नवरं केवलं गुम्फवपुषैव गुम्फेनैव नव्ये भिन्नग्रन्थरूपे अहं प्रणमामि । ययोरर्थात्मनापि नातिभिदा भेदः । अपिशब्दाच्छन्दतोऽपि ॥ कालादिकुमाराणां महाहवारम्भसंभृतैर्दुरितैः । दर्शितनरकातिथ्या निरयावलिका विजेषीरन् ॥ २७ ॥ कालादिदशकुमाराणां चेटककोणिकवैरे महाहवारम्भसंभृतैर्महायुद्धारम्भोपार्जितैः पापैर्दर्शितं नरकातिथ्यं नरकभवप्राप्तिर्याभिस्ता निरयावलिका विजेषीरन्विजयन्ताम् । तत्र कालादिकुमाराणां वर्णनात् ॥ पद्मादयः कल्पवतंसभूयमुपेयिवांसः सुकृतैः शमीशाः। यत्रोदिताः श्रेणिकराजवंश्या उपास्महे कल्पवतंसिकास्ताः ॥ २८ ॥ श्रेणिकराजवंश्याः पद्मादयः शमीशा ऋषयः सुकृतैः कल्पवतंसभूयं देवत्वमुपेयिवांसः प्राप्ता यत्रोदिताः कथितास्ताः कल्पवतंसिका वयमुपास्महे ।...... ॥ चन्द्रसूर्यबहुपुत्रिकादिभिर्यत्र संयमविराधनाफलम् । भुज्यमानमगृणाद्गणाधिपः पुष्पिकाः शमभिपुष्पयन्तु नः ॥ २९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy