________________
काव्यमाला।
यत्र संयमविराधनायाः फलं चन्द्रसूर्यौ राजानौ पूर्वभवे गृहीतदीक्षा बहुपुत्रिकानपत्या पूर्वभवे प्रव्रजिता......."अगृणाजगाद ताः पुष्पिकाः शं सुखमभिपुष्पयन्तूत्फुल्लयन्तु । यत्र ग्रन्थेऽङ्गिनो ग्रहवासत्यागेन संयमभावपुष्पिता वर्णिताः (१) ॥
श्रीहीप्रभृतिदेवीनां चरित्रं यत्र सूत्रितम् ।
ताः सन्तु मे प्रसादानुकूलिकाः पुष्पचूलिकाः ॥ ३० ॥ श्रीह्रीप्रभृतिदेवीनां चरित्रं परिवारादिस्वरूपं यत्र सूत्रितं कथितं ताः पुष्पचूलिका मे मम प्रसादानुकूलिकाः प्रसादतत्पराः सन्तु ॥
वृष्णीनां निषधादीनां द्वादशानां यशःस्रजः ।
पुष्णन्तु भक्तिनिष्ठानां दशां वृष्णिदशाः शुभाम् ॥ ३१ ॥ निषधादीनां राज्ञां वृष्णीनामन्धक ... 'वृष्णिदशा भक्तिपरायणानां शुभां दशां पुष्णन्तु ॥ नन्यनुद्योगद्वारयोः पूर्व कथनादायद्वयेन त्रयोदशप्रकीर्णकानि स्तौति
वन्दे मरणसमाधि प्रत्याख्याने महातुरोपपदे । संस्तारचन्द्रवेध्यकभक्तपरिज्ञाचतुःशरणम् ॥ ३२ ॥ वीरस्तवदेवेन्द्रस्तवगच्छाचारमपि च गणिविद्याम् ।
द्वीपाब्धिप्रज्ञप्तिं तण्डुलवैतालिकं च नुमः ॥ ३३ ॥ अहं वन्दे मरणसमाधिम् । प्रत्याख्याने महा इति आतुर इत्युपपदे ययोस्ते । महाप्रत्याख्यानमातुरप्रत्याख्यानं च । संस्तार-चन्द्रवेध्यक-भक्तपरिज्ञा-चतुःशरणमिति समाहारः । वीरतवं-देवेन्द्रस्तवं-गच्छाचारं गणिविद्यां द्वीपाब्धिप्रज्ञप्तिं तण्डुलवैतालिकं च वयं नुमः । सर्वेषां नामार्थाः पाक्षिकसूत्रावचूर्णौ सन्ति ॥ ..
शिवाध्वदीपायोद्धातानुद्धातारोपणात्मने ।
चित्रोत्सर्गापवादाय निशीथाय नमो नमः ॥ ३४ ॥ मोक्षमार्गदीपाय उद्धातो गुरुप्रायश्चित्तविशेषः । अनुद्धातस्तु तद्विपरीतः । लघुरित्यर्थः । तयोरारोपणमुचितस्थाने प्रयोजनं तदात्मा स्वरूपं यस्य स तस्मै उद्धातानुद्धातारोपणात्मने ॥ चित्रा विविधा उत्सर्गापवादा यत्र । उत्सर्गो मुख्यमार्गः । अपवादः करणे प्रतिषिद्धसेवा । निशीथमर्धरात्रस्तद्वद्रहोभूतं यध्ययनं तन्निशीथं तस्मै निशीथाचाराङ्गपञ्चमचूडायै नमो नमः॥ नियुक्तिभाष्यप्रमुखैर्निबन्धैः सहस्रशाखीकृतवाच्यजातम् । दशाश्रुतस्कन्धमनात्तगन्धं परैः सकल्पव्यवहारमीडे ॥ ३५ ॥ नियुकिभाष्यप्रमुखैर्निबन्धैः सहस्रशाखीकृतं विस्तारितं वाच्यजातं यत्र तं दशाध्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org