SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तागमस्तवः। यनानां श्रुतस्कन्धं दशाश्रुतस्कन्धं परैः परमतिभिरनात्तगन्धम् । कल्पः साध्वाचारस्वत्प्रतिपादको ग्रन्थोऽपि कल्पः । व्यवहारः प्रतीतार्थस्तत्प्रतिपादको अन्थोऽपि व्यवहारः। ताभ्यां सह वर्तते यः स कल्पव्यवहारस्तमीडे स्तुवे ॥ षट्सप्तपतिविंशतिषड्गुणसप्तप्रकारकल्पानाम् । विस्तारयिता कल्पितफलदः स्तात्पश्वकल्पो नः ॥ ३६ ।। षट् सप्त पतिर्दश विंशतिः षड्गुणसप्त द्विचत्वारिंशत् एतत्प्रकारा ये कल्पास्तेषां विस्तारयिता पञ्चकल्पो नोऽस्माकं कल्पितफलदो वाञ्छितफलप्रदः स्यात् ॥ लेभे यव्यवहारेणाधुनान्त्येनापि मुख्यता। तं जीतकल्पमाकल्पकल्पं तीर्थश्रियः श्रये ।। ३७ ॥ अन्त्येनापि यद्व्यवहारेण यदाचारेणाधुना मुख्यता लेमे । एतदाधारेणैव प्रायश्चित्तविधिप्रवृत्तेः । तं जीतकल्पं तीर्थश्रियः शासनरमाया आकल्पकल्पं वेषतुल्यं श्रये। व्यवहाराः पञ्च । आगमः श्रुतमाज्ञा धारणा जीतं चेति सन्ति । .............. । एवं जीतव्यवहारोऽन्त्यः॥ अञ्चामि पञ्चननवप्रमाणमाचाम्लसाध्यं कुमतैरबाध्यम् । महानिशीथं महिमौषधीनां निशीथिनीशं शिववीथिभूतम् ।। ३८ ॥ पञ्चन्ननवतिः पञ्चचत्वारिंशत् तत्प्रमाणैराचाम्लैः (१) साध्यम् । कुमतैरवाध्यम् । महिमान ओषध्यस्तासां निशीथिनीशं चन्द्रम् । वृद्धिप्रापकलात् । मोक्षमार्गभूतं महानिशीथमञ्चामि पूजयामि ॥ नियुक्तिभाष्यवार्तिकसंग्रहणीचूर्णिटिप्पनकटीका। सर्वेषामप्येषां चेतसि निवसन्तु नः सततम् ॥ ३९ ॥ - नियुक्तिः सूत्रोक्तार्थभेदप्ररूपिका । भाष्यं सूत्रोक्तार्थप्रपञ्चकम् । वार्तिकमुक्तानुक्तदुरुक्कार्थानां चिन्ताकारि । संग्रहणी सूत्रार्थस्य संग्राहिका । चूर्णिरवचूर्णिः । टिप्पनकं विषमपदव्याख्या । टीका निरन्तरव्याख्या । एता एषां सर्वेषामपि पूर्वोक्तग्रन्थानां नश्चेतसि सततं निवसन्तु ॥ परिकर्मसूत्रपूर्वानुयोगगतपूर्वचूलिकाभेदम् । ध्यायामि दृष्टिवादं कालिकमुत्कालिकं श्रुतं चान्यत् ॥ ४०॥ परिकर्म सप्तमेदम् । सूत्राणि द्वादशभेदानि । पूर्वानुयोगो द्विधा प्रथमानुयोगः कालानुयोगः । प्रथमे जिनचक्रिदशारचरितानि । कालानुयोगेऽर्थतो जिनैः शब्दतो गणधरश्च पूर्व रचितखात् पूर्वाणि चतुर्दशापि पूर्वगतम् । चूलिका उक्तशेषबाष्पा (१) एतेपश्च मेदा यस्य तम् । दृष्टयो दर्शनानि तासां वदनं दृष्टिवादस्तं ध्यायामि । च पुनर. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy