SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। न्यत्कालिकमगाढायोगसाध्यमुत्कालिकमनागाढायोगसाध्यं ध्यायामि । श्रुतं हि द्विधाअङ्गप्रविष्टमनङ्गप्रविष्टं च । ...... ॥ यस्या भवन्त्यवितथा अद्याप्येकोनषोडशादेशाः । सा भगवती प्रसीदतु ममाङ्गविद्यानवद्यविधिसाध्या ॥ ११ ॥ यस्या अद्याप्येकोनषोडश पञ्चदशादेशाः स्वप्नादिष्वतीतानागतवर्तमानकथनान्यवितथाः सत्या भवन्ति सा अङ्गविद्या भगवती अनवद्यविधिसाध्या मम प्रसीदतु ॥ वन्दे विशेषणवती संमतिनयचक्रवालतत्त्वार्थान् । ज्योतिष्करण्डसिद्धप्राभृतवसुदेवहिण्डींश्च ॥ ४२ ॥ विशेषणवती संपत् । एतान्ग्रन्थानहं वन्दे ॥ कर्मप्रकृतिप्रमुखाण्यपराण्यपि पूर्वसूरिचरितानि । ... समयसुधाम्बुधिपृषतान्परिचिनुमः प्रकरणानि चिरम् ॥ ४३ ॥ कर्मखरूपप्रतिपादको प्रन्थः कर्मप्रकृतिः । तत्प्रमुखाण्यपराण्यप्यनुक्तानि पूर्वसूरिचरितानि प्रकरणानि चिरं परिचिनुमः सुपरिचितानि कुर्मः । सिद्धान्तोदधिबिन्दुप्रायाणि ॥ व्याकरणच्छन्दोलंकृतिनाटककाव्यतर्कगणितानि । सम्यग्दृष्टिपरिग्रहपूतं जयति श्रुतज्ञानम् ॥ ४४ ॥ व्याकरणादिकं मिथ्याग्भिः कृतमपि सम्यग्दृष्टयो देवास्तैः परिग्रहः स्वीकृतिस्तया पूतं श्रुतज्ञानं जयति ॥ सर्वश्रुताभ्यन्तरगां कृतैनस्तिरस्कृति पञ्चनमस्कृति च। तीर्थप्रवृत्तेः प्रथमं निमित्तमाचार्यमत्रं च नमस्कारोमि ॥४५॥ कृतपापतिरस्कारां सर्वसिद्धान्तमध्यगां पञ्चनमस्कृतिं पञ्चनमस्कारं शासनप्रवृत्तेः प्रथमं निमित्तमाचार्यमत्रं च नमस्करोमि ॥ इति भगवतः सिद्धान्तस्य प्रसिद्धफलप्रथां गुणगणकथां कण्ठे कुर्याजिनप्रभवस्य यः । वितरतितरां तस्मै तोषाद्वरं श्रुतदेवता स्पृहयति च सा मुक्तिश्रीस्तत्समागमनोत्सवम् ॥ ४६॥ इत्यमुना प्रकारेण भगवतः सिद्धान्तस्य जिनप्रभवस्य जिनप्रणीतस्य यः पुरुषो गुणा ............. माहात्म्यादयस्तेषां गणः समूहस्तस्य कथां जल्पनमेतत्स्तवरूपां कण्ठे कुर्यात्पठति । कथंभूताम् । प्रसिद्धा सर्वविद्भिर्खता फलानां 'कुत्रचिन्नगरे बहुपद्मपरि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy