________________
आत्मनिन्दाष्टकम् । वृतं महापुण्डरीकं देवताधिष्ठितं सरस्यास्ते तच्च केनापि ग्रहीतुं न शक्यते । राज्ञोकं य एतदानयति तद्धर्ममहं प्रतिपद्य इति । यदा परतीर्थिकरुपक्रमेणाप्यादातुं न शक्तं मंत्रिणा जैनर्षिराकारितः। तेन च सचित्तजलास्पर्शिना (?) त्रिः प्रदक्षिणीकृत्य पालिस्थनैव 'उप्पाहि पुण्डरीया' इत्यादि पुण्डरीकाध्ययनं पेठे । ततस्तत्पुण्डरीकमुत्पत्य राज्ञोऽके पपात । तदनु सपरिकरो राजा जैनोऽजनि । इत्यादीनां प्रथा विस्तारो यस्यास्तां प्रसिद्धफलप्रथाम् । तस्मै श्रुतदेवता वरं वितरति दत्ते । सा मुक्तिश्रीस्तत्समागमनोत्सवं स्पृहयति । अत्र पूर्वार्धे जिनप्रभवस्येति सिद्धान्तविशेषणेन कविरौद्धत्यपरिहाराय गुप्तं जिनप्रमेति खनामाभिहितवान् ॥
आदिगुप्ताभिधानस्य गुरोः पादप्रसादतः । पदविच्छेदरूपेयं विवृतिलिखिता मिता ॥ इति श्रीजिनप्रभविरचितः सावचूरिः सिद्धान्तागमस्तवः ।
आत्मनिन्दाष्टकम् । श्रुत्वा श्रद्धाय सम्यक्छुभगुरुवचनं वेश्मवासं निरस्य
प्रव्रज्याथो पठित्वा बहुविधतपसा शोषयित्वा शरीरम् । धर्मध्यानाय यावत्प्रभवति समयस्तावदाकस्मिकीयं
प्राप्ता मोहस्य धाटी तडिदिव विषमा हा हताः कुत्र यामः ॥ १॥ एकेनापि महाव्रतेन यतिनः खण्डेन भनेन वा ।
दुर्गत्यां पततो न सोऽपि भगवानीष्टे खयं रक्षितुम् । हत्वा तान्यखिलानि दुष्टमनसो वर्तामहे ये वयं
तेषां दण्डपदं भविष्यति कियजानाति तत्केवली ॥२॥ कट्यां चोलपटं तनौ सितपटं कृत्वा शिरोलुञ्चनं . __ स्कन्धे कम्बलिकां रजोहरणकं निक्षिप्य कक्षान्तरे । वक्के वस्त्रमथो विधाय ददतः श्रीधर्मलाभाशिषं __ वेषाडम्बरिणः स्वजीवनकृते विद्मो गतिं नास्मनः ॥ ३ ॥ भिक्षापुस्तकवस्त्रपात्रवसतिप्रावारलुब्धा यथा
नित्यं मुग्धजनप्रतारणकृते कष्टेन खिद्यामहे । १. पुस्तकेऽवचूरिकृतो नाम नोपालब्धम्. २. एतदष्टकमस्मभ्यं बृहत्खरतरगच्छमण्डनायमानजङ्गमयुगप्रधानभट्टारकश्री १०६ श्रीपूज्यजिनमुक्तिसूरिभिः सांप्रतं जयपुरमलंकुर्वद्भिर्दत्तमस्ति. तत्र च पुस्तके कर्तुर्नाम नास्ति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org