SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । आत्मारामतया तथा क्षणमपि प्रोज्ड्य प्रमादद्विषं खार्थाय प्रयतामहे यदि तदा सर्वार्थसिद्धिर्भवेत् ॥ ४॥ पाखण्डानि सहस्रशो जगृहिरे ग्रन्था भृशं पेठिरे __लोभाज्ञानवशात्तपांसि बहुधा मूढैश्चिरं तेपिरे । क्वापि कापि कथंचनापि गुरुभिर्भूत्वा मदो भेजिरे ___ कर्मक्लेशविनाशसंभवविमुख्या(मुखा)न्यद्यापि नो लेभिरे ॥५॥ किं भावी नारकोऽहं किमुत बहुभवी दूरभव्यो न भव्यः किं वाहं कृष्णपक्षी किमचरमगुणस्थानकं(?) कर्मदोषात् । वह्निज्वालेव शिक्षा व्रतमपि विषवत्खड्गधारा तपस्या खाध्यायः कर्णसूची यम इव विषमः संयमो यद्विभाति ॥ ६॥ वस्त्रं पात्रमुपाश्रयं बहुविधं भैक्षं चतुर्थांषधं शय्यापुस्तकपुस्तकोपकरणं शिष्यं च शिक्षामपि । गृह्णीमः परकीयमेव सुतरामाजन्मवृद्धा वयं यास्यामः कथमीहशेन तपसा तेषां हहा निष्क्रयम् ॥ ७ ॥ अन्तर्मत्सरिणां बहिः शमवतां प्रच्छन्नपापात्मनां नद्यम्भःकृतशुद्धिमद्यपवणिग्दुर्वासनाशात्मिनाम्(?) ।. पाखण्डव्रतधारिणां बकदृशां मिथ्याशामीदृशां । बद्धोऽहं धुरि तावदेव चरितैस्तन्मे हहा का गतिः ॥ ८॥ येषां दर्शनवन्दनप्रणमनस्पर्शप्रशंसादिना ___ मुच्यन्ते तमसा निशा इव सिते पक्षे प्रजास्तत्क्षणात् । तादृक्षो अपि सन्ति केऽपि मुनयस्तेषां नमस्कुर्महे __ संविना वयमात्मनिन्दनमिदं कुर्मः पुनर्बोधये ॥९॥ रागो मे स्फुरति क्षणं क्षणमथो वैराग्यमुज्जम्भते द्वेषो मां भजति क्षण क्षणमथो मैत्री समालिङ्गति। दैन्यं पीडयति क्षणं क्षणमथो हर्षोऽपि मां बाधते ....... कोपेयं कृपणो कृपापरिवृतैः(१) कार्य हहा कर्मभिः ॥ १॥ . इत्यात्मनिन्दाष्टकम् । - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy