________________
श्रीमहावीरखामिस्तोत्रम् । श्रीजिनवल्लभमरिविरचितं
___समसंस्कृतप्राकृतं
श्रीमहावीरस्वामिस्तोत्रम् । भावारिवारणनिवारणदारुणोरु
कण्ठीरवं मलयमन्दरसारधीरम् । वीरं नमामि कलिकालकलङ्कपङ्क___ संभारसंहरणतुङ्गतरङ्गतोयम् ॥ १॥ बाढं विसारिगरिमा महिमा तवेह
बुद्धो न देवगुरुणा न पुरंदरेण । तं कोऽवगन्तुमखिलं जडिमालयोऽह
मिच्छामि किं तु तव देव गुणाणुमेव ॥ २ ॥ सन्तो गुणा गुणिगुरो तव हासहंस___ नीहारहारधवला बहुलीभवन्ति । ते सोमसूरहरिहीरविरञ्चिबुद्ध___ मायाविदेवनिवहेन मलीमसा वा ॥ ३ ॥ देवं भवन्तमवहाय दुरन्तमोह
संच्छन्नबुद्धिमिहिरा इह भूरिकालम् । संसारनीरनिलये बहु संसरन्तो
विन्दन्ति जन्तुनिवहा नहि सिद्धिभावम् ॥ ४ ॥ सासूयसंगमसुरोरुसमूढदम्भ
संरम्भसंतमससंचयचण्डभासम् । हिंसासरोरुहतमीरमणं चिरोढा
हंकारकन्दलदलीकरणासिदण्डम् ॥ ५॥ वन्देऽहमिन्दुदलमालममन्दभेद..
संदोहमन्दिरवरं दरकन्दकोलम् । '
१. स्तोत्रस्यास्यैकमेव पुस्तकं संवेगिसाधुवरश्रीशान्तिविजयमुनिभिरस्मभ्यं दत्तम्. पुस्तकान्तरं टीका वा नोपलब्धेति क्वचित्क्वचित्संदेहो वर्तते ।
९ का० स० गु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org