________________
१४४
काव्यमाला।
पङ्ककर्दमः कालुष्यम् , जरा विस्रसा, आजिः प्रधनं तैः । पुनः किंभूताम् । अध्यासीनाम् । कम् । माधिपं पुरुषप्रकाण्डम् । करैः किंविशिष्टैः। कजं पद्मं तद्वद्राजिभी राजनशीलैः ॥
पूज्य श्रीवासुपूज्यावृजिन जिनपते नूतनादित्यकान्ते
ऽमायासंसारवासावन वर तरसाली नवालानबाहो । आनम्रा त्रायतां श्रीप्रभवभवभयाद्विभ्रती भक्तिभाजा
मायासं सारवासावनवरतरसालीनवालानबाहो ॥ ४५ ॥ हे पूजनीय, हे श्रीवासुपूज्य, हे अवृजिन, हे जिनपते, भक्तिभाजां जनानामाली श्रेणिस्त्वया त्रायतां रक्षताम् । नूतनो विभातसमये उद्गच्छन् य आदित्यस्तद्वद्रक्ता कान्तिर्यस्य तस्य संबोधनम् । हे अमाय अदम्भ । हे असंसारवास, मुक्तौ प्राप्तत्वात् । हे अवन रक्षक, हे वर प्रधान । केन । तरसा बलेन वेगेन वा । यद्वा मायासंसारवासाभ्यां सकाशादवति रक्षतीति । नवालानववाहू भुजौ यस्य तस्य संबोधनम् । आली किंभूता । आनम्रा कृतप्रणामा । कस्मात्रायताम् । श्रीप्रभवः कामस्तद्भवं यद्भयं तस्मात् । हे श्रीप्रभव लक्ष्मीसमुत्पत्तिस्थानेति पृथग्जिनामन्त्रणं वा । आली किं कुर्वाणा । दधती । कम् । आयासं दुःखं श्रमं वा । सारवा प्रारब्धस्तुतिखात्सशब्दा । असौ प्रत्यक्षा । अनवरतमजस्रं रसायां पृथिव्यां लीना वालाः केशा यस्याः सा । एतेन भक्त्याधिक्यं सूचितम् । नवा कतिपयदिनप्राप्तबोधिः अस्मदादिवत् । अहो इत्यामन्त्रणे ॥
पूतो यत्पादपांशुः शिरसि सुरततेराचरचूर्णशोभां
या तापत्रासमाना प्रतिपदमवतीहार ताराजयन्ती । कीर्तेः कान्त्या ततिः सा प्रविकिरतुतरां जैनराजी रजस्ते
__ यातापत्रासमानाप्रतिमदमवती हारतारा जयन्ती ।। ४६ ।। - पूतः पवित्रो यत्पादपांशुश्चरणरेणुः सुरसमूहस्य मस्तके चूर्णशोभा वासक्षोदलक्ष्मी प्राप्तवान् । या ततिस्तापत्रा तापमेत्री । असमाना गुणैरनन्यसदृशी । प्रतिमदं प्रतिगतमदं निर्मदमवति रक्षति । इह अरता अप्रतिबद्धा । राजयन्ती शोभां लम्भयन्ती । सा तती रजः कर्म ते तव प्रविकिरतु क्षपयतु । किं विशिष्टा । जिनराजानामियं जैनराजी तीर्थकरसंबन्धिनी । अप्रतिमो दमो यस्याः सा अप्रतिमदमवती । याता गता आपद्विपत्, त्रासस्त्वाकस्मिकं भयम्, मानो गर्यो यस्याः सा । कीर्तेः कान्या जयन्ती अभिभवन्ती । काः । हारताराः मुक्तावलीनक्षत्राणि ॥
नित्यं हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा
पायायासाद्यमानामदन तव सुधासारहृया हितानि । वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ क्रियान्मे
पापायासाद्यमानामदनतं वसुधासार हृद्याहितानि ।। ४७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org