________________
चतुर्विंशतिजिनस्तुतिः ।
१४५
नित्यं सर्वदा हे तीर्थनाथ, तव वाणी मम हितानि क्रियात् । कथंभूता । हेतवो वस्तुगमकलिङ्गानि । उपपत्तयो युक्तयः । यद्वा हेतूनामुपपत्तयस्ता मिर्विध्वस्तः कुशासनप्रोद्दामतमोग्रन्थिर्यया । अपगता अपाया अनर्था यस्याः सा । आसाद्यमाना प्राप्यमाणा । अपापायैरासाद्यमाना वा । हे अमदन अकाम । सुधाया अमृतस्यासारो वेगवान्वर्षस्तद्वन्मनोहरा । श्रूयमाणामृतमिव हृदयंगमेत्यर्थः । मोक्षपथस्नेहलैः स्वीकृता । न विद्यते पापं चायासश्चादिर्येषां ते पापायासादयस्ते च तेऽमानाश्च । मदाश्च नरास्तैर्वन्दित । वसुधासार पृथिव्युत्कृष्ट । आहितानि स्थापितानि । क्व । हृदि मनसि ॥ रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी वाहितश्वेतभाख
त्सन्नालीका सदा सापरिकरमुदिता साक्षमाला भवन्तम् । शुभ्रा श्रीशान्तिदेवी जगति जनयतात्कुण्डिका भाति यस्याः
सन्नालीका सदाप्ता परिकरमुदिता सा क्षमालाभवन्तम् ॥ ४८ ॥
श्री शान्तिदेवी भवन्तं त्वां क्षमा उपशमस्तस्या लाभः सोऽस्यास्तीति तं क्षमालाभवन्तं क्रियात् । कीदृशा । रक्षांसि पलादाः, क्षुद्राः शाकिनीप्रमुखाः, ग्रहाः शनैश्वरादयः । आदिशब्दाद्भूपालव्यालादयः । तेभ्यः प्रतिहतिरुपघातस्तस्याः शमनी नाशिका | वाहितं वाहनीकृतं श्वेतं सितं भास्वद्दीप्यमानं सत् शोभनं नालीकं कमलं यया सा | सतां साधूनामाप्ता अविप्रतारिका । प्तापरिकरं जटामण्डलं तेन मुदिता प्रीता । सन्नं क्षीणमलीकमसत्यं यस्याः सा । सहाक्षमालया जपमालया वर्तते । इदं देव्याः कुण्डि - काया वा विशेषणम् । यस्या देव्याः कुण्डिका कमण्डलुर्भाति । कथंभूता । करं हस्तं परि लक्षीकृत्य उदिता उदयं प्राप्ता ॥
अपापदमलं घनं शमितमानमामो हितं
नतामरसभासुरं विमलमालयामोदितम् । अपापदमलङ्घनं शमितमानमामो हितं
न तामरसभासुरं विमलमालयामोदितम् ॥ ४९॥
विमलं जिनं वयमानमामः । पापं ददातीति पापदः । न पापदमपापदम् । पुण्यप्रदमित्यर्थः । अलमत्यर्थम् । यद्वा अपापो यो दम उपशमस्तं लातीति अपापदमलम् । घनं निश्छिद्रं अशेषमलक्षयोत्थं शं सुखमितं प्राप्तम् । हितं प्राणिगणस्य । नता नम्रीभूता अमरसभा देवपर्षदसुराश्व यस्य । विमला या माला पुष्पत्रक तयामोदितं सुरभीकृतम् । अंपगता आपदो यस्मात्तम् । अलङ्घनं केनाप्यपराभूतम् । शमितो मानो येन तम् । आमोहितं न मोहेन समन्तान्न वशीकृतम् । तामरसं कमलं तद्वद्भासुरं दीप्यमानम् । [विमलं निर्दोषम् |] आलये गृहविषये । अमोदितमहृष्टम् ॥ सदानवसुराजिता असमरा जिना भीरदाः
क्रियासु रुचितासु ते सकलभा रतीरायताः ।
१३ का० स० गु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org