________________
काव्यमाला
सदानवसुराजिता असमराजिनाभीरदा
क्रियासुरुचितासु ते सकलभारतीरा यताः ॥ ५० ॥ ते जिनाते तव आयता विपुला रतीर्मुदः क्रियासु कर्तव्यषु क्रियासुर्देयासुः । किंभूतासु । रुचितासु इष्टासु । उचितासु योग्यासु । पुण्यरूपाखित्यर्थः । जिनाः किं विशिष्टाः । सदानवैः सासुरैः सुरैरुपसर्गादिभिरजिताः । असमरा अरणाः। मियं भीति रदन्ति भिन्दन्तीति भीरदाः । 'रद विलेखने । सकलाः सदोषाः संसारकृत्यरूपा ये भारास्तेषां पर्यन्ते स्थितत्वात्तीराः । यद्वा असदोषा भारतीरीरयन्ति रान्ति वा । यताः प्रयत्नवन्तः । सदानं सत्यागं यद्वसु सुवर्ण तेन राजिताः शोभिताः । असमाः शोभमानाश्च नाभीरदा येषां ते । सकला समस्ता भा दीप्तिर्येषां येषु वा । यद्वा सह कलभया रुचिररुचा वर्तन्ते ॥
सदा यतिगुरोरहो नमत मानवैरञ्चितं ___ मतं वरदमेनसा रहितमायताभावतः । सदायति गुरोरहो न मतमानवैरं चितं
__ मतं वरदमेन सारहितमायता भावतः ॥ ५१ ॥ अहो लोकाः, यतिगुरोः सर्वज्ञस्य भावतो भक्त्या मतं शासनं नमत । सदा सर्वकालम् । कथंभूतम् । मानवैर्मानुषैरश्चितं पूजितम् । वरमभीष्टार्थ ददाति वरदम् । एनसा पापेन रहितं त्यक्तम् । यतिगुरोः किंभूतस्य । आयताभावतः आयता विपुला भा अस्यास्तीति मतुप् । मतं किंभूतम् । सदायति सती शोभना आयतिरागामिकालः प्रभूता वा यस्य तत् । गुरोरर्हतो रहो रहस्यभूतम् । न मतेऽभीष्टे मानवैरे यस्य । चितं व्याप्तम् । केन । वरदमेन प्रधानोपशमेन । किंभूतेन । आयता आगच्छता । मतं कथं. भूतम् । मतं सर्वस्याभिप्रेतम् । सारं च तद्धितं च । यद्वा सारं हितं यस्मिन् ॥
प्रभाजि तनुतामलं परमचापला रोहिणी
सुधावसुरभीमना मयि सभाक्षमालेहितम् । प्रभाजितनुतामलं परमचापलारोहिणी
सुधावसुरभीमनामयिसभा क्षमाले हितम् ॥ ५२ ।। रोहिणी देवी मयि विषये ईहितममलमनवयं हितं शुभोद तनुतां कुरुताम् । मयि कथंभूते । प्रभाजि प्रकर्षण भजत इति तच्छीले । अलमत्यर्थम् । परं प्रकृष्टम् । देवी किंविशिष्टा । अचापला चापल्यमुक्ता । सुधा प्रासादलेपनद्रव्यं तद्वद्वसु तेजो यस्याः । यद्वा अमृतमेव द्रव्यं यस्याः । न भीर्भयं मनसि यस्याः सा अभीमनाः । सभा सकान्तिका अक्षमाला यस्याः । प्रभाजितैस्तेजस्तिरस्कृतैर्नुता स्तुता । परमं चापं धनुर्लातीति । आरोहणशीला । काम् । सुष्टु धावतीति सुधावा सुवेगा या सुरभी गौस्ताम् । अनायमनी नीरोगा सभा यस्याः सा । क्षमां लातीति क्षमाले मयि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org