________________
चतुर्विंशतिजिनस्तुतिः ।
सकलधौतसहासनमैरवस्तव दिशन्त्वभिषेकजलप्लवाः । मतमनन्तजितः स्त्रपितोल्लसत्सकलधौत सहासन मेरवः ॥ ५३ ॥
सकलाः समस्ता धौताः क्षालिताः सहासाः सविकासा नमेखो वृक्षविशेषा यैस्ते । मतमभिप्रेतम् । हे अनन्तजिन । चतुर्दशस्य तीर्थकृतो द्वे नाम्नी अनन्तोऽनन्तजिच्च । सहासनेन स्नानपीठेन असनैर्वा वृक्षविशेषैर्वर्तते । ततः स्त्रपितः स्नानं कारितः उल्लस शोभमानः सकलधौतः सहेमा सहासनो मेरुयैस्ते । यद्वा सकलधौतं ससुवर्णं सह समर्थ दृढमासनं यस्मिन् । ततः स्नपित उल्लसन् सकलधौतहास नमेरुर्यैस्ते । हे अनन्तजित्, तव स्नानजलप्रवाहा मतं हितं दिशन्विति संबन्धः ॥
मम तामरसेवित ते क्षणप्रद निहन्तु जिनेन्द्रकदम्बक | वरद पादयुगं गतमज्ञताममरतामरसे विततेक्षण ॥ ५४ ॥
हे जिनेन्द्रपटल, ते तव पादयुगं ममाज्ञतां जाड्यं निहन्तु । रताः सक्तचित्ता येमरास्तैः सेवित । हे क्षणप्रद उत्सवदायक | वरं ददातीति वरद । पादयुगं किंभूतम् । गतं प्राप्तम् । क । अमरतामरसे सुरकृतनवकमलेषु । जातित्वादेकवचनम् । वितते विस्तीर्णे लोचने यस्य तस्य संबोधनम् ॥
परमतापदमानसजन्मनः प्रियपदं भवतो भवतोऽवतात् ।
जिनपतेर्मतमस्तजगत्रयी परमतापदमानसजन्मनः ॥ ५५ ॥
१४७
हे भव्यलोकाः, जिनेन्द्रमतं भवतो युष्मान् भवतः संसारात् अवताद्रक्षताम् । किंविशिष्टम् । परमतानां बौद्धादिशासनानामापदां हेतुत्वादापद्व्यसनम् । अमानान्यसंख्यानि सजन्ति संबध्यमानानि मनःप्रियाणि चित्तप्रीतिकराणि पदानि स्वाद्यन्तानि यस्मिंस्तत् । जिनपतेः कथंभूतस्य । अस्तो ध्वस्तो जगत्रय्याः परमतापदो महासंतापकारी मानसजन्मा कामो येन तस्य ॥
रसितमुच्चतुरङ्गमनायकं दिशतु काञ्चनकान्तिरिताच्युता ।
धृतधनुः फलकासिशरा करै रसितमुच्चतुरं गमनाय कम् ॥ ५६ ॥
अच्युता अच्छुप्ता देवी कं सुखं देयात् । कथंभूता । इता प्राप्ता । कम् । उच्चतुरङ्गमनायकं तुङ्गाश्वप्रकाण्डम् । किंविशिष्टम् । रसितं शब्दायमानम् । उत्प्राबल्येन चतुरं दक्षम् । असितं नीलवर्णम् । यद्वा रसिते मुत्प्रमोदो यस्य स चासौ चतुरश्च तम् । गमनाय गत्यर्थम् । देवी कथंभूता । काञ्चनवत्कान्तिर्यस्याः सा । करैः शरैर्धृता चापावरणखङ्गबाणा यया सा ॥
नमः श्रीधर्म निष्कर्मोदयाय महितायते ।
मर्त्यामरेन्द्रनागेन्द्रैर्दयायमहिताय ते ॥ ५७ ॥
हे धर्मनाथ जिन, ते तुभ्यं नमोऽस्तु । कथंभूताय । निर्गतः कर्मोदयो भलोत्पादो यस स तस्मै निर्गतकर्मोदयाय | महिता पूजिता आयतिरुत्तरकालः प्रभुता वा यस्य । यद्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org