________________
काव्यमाला।
महिता आसमन्तायतयः साधवो यस्य तत्संबोधनम् । कैमोमरेन्द्रनागेन्द्रमांचामराश्च तेषामिन्द्रा नागेन्द्राश्च । नागेन्द्रस्योपलक्षणात्पातालवासिदेवैः । दया च यमाश्च व्रतानि तेषां हिताय ते तुभ्यम् ॥
जीयाजिनौधो ध्वान्तान्तं ततान लसमानया ।
भामण्डलत्विषा यः स ततानलसमानया ॥ ५८ ।। स जिनौघो जीयात् । भामण्डलकान्त्या यो ध्वान्तध्वंसं ततानाकृत । किंभूतया। ततो विपुलो योऽनलो वह्निस्तत्सदृशया लसमानया वर्धमानया ॥
भारति द्राग्जिनेन्द्राणां नवनौ रक्षतारिके ।
संसाराम्भोनिधावस्मानवनौ रक्ष तारिके ॥ ५९॥ हे जिनवराणां वाणि, अस्मानवनौ पृथिव्यां रक्ष । किंविशिष्टा । नवा प्रत्यप्रा नौर्मङ्गिनी(?) संबोधनं वा । कस्मिन् । संसाराम्भोनिधौ भवसागरे । अक्षतानुपहता अरयः शत्रवः कं जलं यत्र । हे तारिके निर्वाहिके ॥
केकिस्था वः क्रियाच्छक्तिकरा लाभानयाचिता ।
प्रज्ञप्ति+तनाम्भोजकरालामा नयाचिता ॥ ६० ॥ प्रज्ञप्तिर्देवी वो युष्माकमयाचिता अप्रार्थिता लाभान् दद्यात् । किंभूता । केकिनि मयूरे तिष्ठतीति के किस्था । शक्तिः प्रहरणविशेषः करे यस्याः । नवकमलवकराला अत्युल्बणा भा यस्याः सा । नयेन नीत्या आचिता व्याप्ता ॥
राजन्त्या नवपद्मरागरुचिरैः पादैर्जिताष्टापदा
द्रेडकोपद्रुत जातरूपविभया तन्वार्य धीर क्षमाम् । बिभ्रत्यामरसेव्यया जिनपते श्रीशान्तिनाथामरो
द्रेकोपद्रुत जातरूप विभयातन्वार्यधी रक्ष माम् ॥ ६१॥ हे श्रीशान्तिदेव, मां रक्ष पालय । जितोऽष्टापदाद्रिरुर्येन तस्य संबोधनम् । कया। तन्वा शरीरेण । किंभूतया । पादैश्चरणै राजन्त्या शोभमानया। किंभूतैः । नवपद्मरागो नूतनकमलरक्तता तद्वद्रुचिरैश्वारुभिः । हे अकोप अक्रोध । पुनस्तन्वा किंभूतया । द्रुतमुत्तप्तं यज्जातरूपं तपनीयं तद्वद्विभा कान्तिर्यस्यास्तया । हे अर्य खामिन् । हे धीर परि. षहाद्यक्षोभ्य । तन्वा किं कुर्वत्या । क्षमा क्षान्ति बिभ्रत्या धारयन्या । अमरसेव्यया देवसेवनीयया । हे अस्मरोद्रेकोपद्रुत न कामवेगपीडित । जातं प्रादुर्भूतं विश्वातिशायि रूपं सौन्दर्य यस्य । हे विभय गतभय । अतनुरकृशा आर्या प्रशस्या धीर्यस्य तस्य संबो. धनम् । वमित्यस्यानुक्तस्यापि रक्षेति क्रिययोपलब्धस्य विशेषणं वा । अत्र तनोर्मेरुणा श्लेषः सोऽपि पद्मरागमणिमयैः पादैर्मूले राजते खर्णवर्णश्च । क्षमा भुवं बिभर्ति । अमरसेव्यश्च स्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org