________________
चतुर्विशतिजिनस्तुतिः।
ते जीयासुरविद्विषो जिनवृषा मालां दधाना रजो__ राज्या मेदुरपारिजातसुमनःसंतानकान्तां चिताः । कीर्त्या कुन्दसमत्विषेषदपि ये न प्राप्तलोकत्रयी- राज्या मेदुरपारिजातसुमनःसंतानकान्ताञ्चिताः ॥ ६२ ॥ ते जिनोत्तमा जयन्तु । ये प्राप्तत्रैलोक्यैश्वर्या अपि ईषदपि न मेदुर्मदं चक्रुरिति संबन्धः । किंविशिष्टाः । अविद्विषः शत्रुरहिताः। मालां स्रजं धारयन्तः । मालां किंभू. ताम् । रजोराज्या परागपूरेण मेदुरा । पारिजातकुसुमानि संतानकानि संतानककुसुमानि च तेषामन्ता अवयवा यस्यां ताम् । चिता व्याप्ताः । कया कीर्त्या । कथंभूतया । कुन्दपुष्पोज्वलया । अपारिजाता अपगतवैरिवृन्दा ये सुमनःसंताना विद्वत्समूहा देवसमूहा वा तेषां कान्ताः शिरःप्रणामपराः स्त्रियो वा तैरञ्चिताः पूजिताः ॥
जैनेन्द्रं मतमातनोतु सततं सम्यग्दृशां सद्गुणा
लीलाभं गमहारि भिन्नमदनं तापापहृद्यामरम् । दुर्निर्भेदनिरन्तरान्तरतमोनिर्नाशि पर्युल्लस
ल्लीलाभङ्गमहारिभिन्नमदनन्तापापहृयामरम् ॥ ६३ ॥ जैनेन्द्रं जिनेन्द्रप्रोक्तं मतं सद्गुणश्रेणिलाभं सम्यग्दृष्टीनां वितनोतु । किंविशिष्टम् । गमाः सदृशपाठास्तैहारि मनोहरम् । भिन्नो विदीर्णो मदनोऽनङ्गो येन । तापं संसारभ्रमणजमपहरतीति । यामानि व्रतानि रातीति । दुर्निर्भेदं दुःखमेयं निरन्तरं निर्विवरमान्तरमन्तर्भवं तमो मोहं निर्नाशयतीत्येवंशीलम् । पर्युल्लसल्लीलान्प्रोद्यद्विलासान् अभझानजेयान् महारीन्महावैरिणो भिनत्तीति । नमन्तोऽनन्ता अप्रमाणाः अपापहृद्या अमरा यस्य ॥ दण्डच्छत्रकमण्डलूनि कलयन्स ब्रह्मशान्तिः क्रिया
संत्यज्यानि शमी क्षणेन शमिनो मुक्ताक्षमाली हितम् । तप्ताष्टापदपिण्डपिङ्गलरुचिर्योऽधारयन्मूढतां
संत्यज्यानिशमीक्षणेन शमिनो मुक्ताक्षमालीहितम् ॥ ६४ ॥ स ब्रह्मशान्तिनामा यक्षः शं सुखं कुरुतात् । किं कुर्वन् । दण्डच्छन्त्रकमण्डलूनि कलयनुद्वहन् । किंभूतानि । सन्ति शोभनानि । अज्यानि अहीनानि । शमी प्रशमवान् । क्षणेन वेगेन । मुक्ताक्षमाला अस्यास्तीति । तप्तवर्णपिण्डपीतरुचिः । यो यक्षः कस्यापि शमिनो मुनेरनिशं निरन्तरमीक्षणेन विलोकनेनाज्ञतां मूढतां संत्यज्य हितं परिणतिसुखमधारयत् । हितं किंभूतम् । मुक्का अक्षमा यैस्ते मुनयस्तेषामाली श्रेणिस्वस्या ईहितं चेष्टितम् ॥
भवतु मम मनः श्रीकुन्थुनाथाय तस्मा
यमितशमितमोहायामितापाय हृद्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org