________________
१५०
काव्यमाला।
सकलभरतभर्ताभूजिनोऽप्यक्षपाशा
यमितशमितमोहायामितापायहृद्यः ॥६५॥ तस्मै श्रीकुन्थुनाथाय जिनाय नमोऽस्तु । अमितः शमितो मोहस्यायामितापो दीर्घदवथुर्येन तस्मै । यः स्वामी हृद्यो हृदयहारी । संपूर्णभरतक्षेत्राधिपश्चक्रवर्ती जिनोऽप्यभूत् । किंभूतः । अमितानपायान्हरतीति तस्मै । किंभूताय । अक्षपाशा इन्द्रियरज्जवस्तैरयमिता अबद्धा ये शमिनो मुनयस्तेषां तमोहायाज्ञानघातिने ॥
सकलजिनपतिभ्यः पावनेभ्यो नमः स
नयनरवरदेभ्यः सारवादस्तुतेभ्यः । समधिगतनुतिभ्यो देववृन्दाद्रीयो.
नयनरवरदेभ्यः सारवादस्तु तेभ्यः ॥ ६६ ॥ तेभ्यः सर्वजिनेन्द्रेभ्यो नमोऽस्तु । किंभूतेभ्यः पावनेभ्यः पवित्रताजनकेभ्यः । सन्तः शोभमाना नयनानि लोचनानि रवो देशनाध्वनिः रदा दन्ताश्च येषां तेभ्यः । सारोऽर्थप्रधानो वाद उक्तिर्येषां तैः स्तुताः, यद्वा सारश्चासौ वादश्च तेन स्तुताः तेभ्यः । समधिगता प्राप्ता नुतिर्यैस्तेभ्यः । कस्माद्देवसमूहात् । किंविशिष्टात् । सारवात् । प्रस्तुतस्तुतिकात् । गरीयांसो गरिष्टा नया नीतयो येषु ते च ते नराश्च तेषां वरदेभ्यः । इत्थंभूतेभ्यो जिनेभ्यो नमोऽस्तु भवतु ॥
स्मरत विगतमुद्रं जैनचन्द्रं चकास
कविपदगमभङ्गं हेतुदन्तं कृतान्तम् । द्विरदमिव समुद्यद्दानमार्ग धुताथै
कविपदगमभङ्गं हे तुदन्तं कृतान्तम् ॥ ६७ ॥ हे लोकाः, जिनचन्द्रसंबन्धिनं कृतान्तं सिद्धान्तं यूयं स्मरत । हस्तिनमिव । किंभूतम् । विगतमुद्रं गतप्रमाणम् । चकासन्तः शोभमानाः कविपदानि कवियोग्याः शब्दाः गमा भङ्गाश्च यस्मिन् । हेतुदन्तं हेतव एव दन्तो विपक्षभेदकवाद्विषाणो यस्य तम् । कृतान्तं यमम् । तुदन्तं व्यथमानम् । समुद्यन्समुल्लसन्दानमार्गों ज्ञानादीनां वितरणकमो यस्मिन् । अषैकविपदः पापैकविपद एवागा वृक्षास्ते धुता येन । अभङ्गमजे. यम् । अत्र द्विरदेन श्लेषः । सोऽप्यपेतमर्यादः । तस्यापि पदगमनभङ्गाः शोभन्ते । दानमार्गो मदप्रवाहश्च स्यात् । स च कृतविनाशं च तुदति ॥
प्रचलदचिररोचिश्चारुगात्रे समुद्य
त्सदसिफलकरामेऽमीमहासेऽरिमीते । सपदि पुरुषदत्ते ते भवन्तु प्रसादाः
सदसि फलकरा मेऽभीमहासेऽरिमीते ॥ ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org