SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। अथ दानप्रक्रमः। चारित्रं चिनुते तनोति विनयं ज्ञानं नयत्युन्नतिं पुष्णाति प्रशमं तपः प्रबलयत्युल्लासयत्यागमम् । पुण्यं कन्दलयत्यघं दलयति खर्ग ददाति क्रमा निर्वाणश्रियमातनोति निहितं पात्रे पवित्रं धनम् ।। ७७ ।। दारियं न तमीक्षते न भजते दौर्गत्यमालम्बते ___ नाकीर्तिर्न पराभवोऽभिलषते न व्याधिरास्कन्दति । दैन्यं नाद्रियते दुनोति न दरः क्लिश्नन्ति नैवापदः पात्रे यो वितरत्यनर्थदलनं दानं निदानं श्रियाम् ॥ ७८ ॥ लक्ष्मीः कामयते मतिम॑गयते कीर्तिस्तमालोकते प्रीतिश्चुम्बति सेवते सुभगता नो रोगतालिङ्गति । श्रेयःसंहतिरभ्युपैति वृणुते खोपभोगस्थिति मुक्तिर्वाञ्छति यः प्रयच्छति पुमान्पुण्यार्थमर्थं निजम् ।। ७९ ॥ तस्यासन्ना रतिरनुचरी कीर्तिरुत्कण्ठिता श्रीः स्निग्धा बुद्धिः परिचयपरा चक्रवर्तित्वऋद्धिः । पाणौ प्राप्ता त्रिदिवकमला कामुकी मुक्तिसंपत्सप्तक्षेत्र्यां (2) वपति विपुलं वित्तबीजं निजं यः ।। ८० ॥ - अथ तपःप्रक्रमः । यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानल ज्वालाजालजलं यदुग्रकरणग्रामाहिमन्त्राक्षरम् । यत्प्रत्यूहतमःसमूहदिवसं यल्लब्धिलक्ष्मीलता मूलं तद्विविधं यथाविधि तपः कुर्वीत वीतस्पृहः ॥ ८१ ॥ . यस्माद्विघ्नपरम्परा विघटते दास्यं सुराः कुर्वते कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति । उन्मीलन्ति महर्द्धयः कलयति ध्वंसं चयः कर्मणां खाधीनं त्रिदिवं शिवं च भवति श्लाघ्यं तपस्तन्न किम् ॥८२।। १. 'धिनोति' ख. २. 'पवित्रे' ख. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy