________________
सूक्तिमुक्तावली । कान्तारं न यथेतरो ज्वलयितुं दक्षो दवानिं विना
दावामिं न यथापरः शमयितुं शक्तो विनाम्भोधरम् । निष्णातः पवनं विना निरसितुं नान्यो यथाम्भोधरं
कौघं तपसा विना किमपरो हन्तुं समर्थस्तथा ॥ ८३ ॥ संतोषस्थूलमूलः प्रशमपरिकरस्कन्धबन्धप्रपञ्चः
पंञ्चाक्षीरोधशाखः स्फुरदभयदलः शीलसंपत्प्रवालः । श्रद्धाम्भःपूरसेकाद्विपुलकुलबलैश्वर्यसौन्दर्यभोगः स्वर्गादिप्राप्तिपुष्पः शिवपदफलदः स्यात्तपःकल्पवृक्षः ॥ ८४ ॥
अथ भावनाप्रक्रमः। नीरागे तरुणीकटाक्षितमिव त्यागव्यपेतप्रभोः
सेवाकष्टमिवोपरोपणमिवाम्भोजन्मनामश्मनि । विष्वग्वर्षमिवोषरक्षितितले दानाहदर्चातपः___ खाध्यायाध्ययनादि निष्फलमनुष्ठानं विना भावनाम् ॥ ८५ ॥ सर्व ज्ञीप्सति पुण्यमीप्सति दयां धित्सत्यघं भित्सति __ क्रोधं दित्सति दानशीलतपसां साफल्यमादित्सति । कल्याणोपचयं चिकीर्षति भवाम्भोधेस्तटं लिप्सते
मुक्तिस्त्री परिरिप्सते यदि जनस्तद्भावयेद्भावनाम् ॥ ८६ ॥ विवेकवनसारिणी प्रशमशर्मसंजीवनी ___ भवार्णवमहातरी मदनदावमेघावलीम् । चलाक्षमृगवागुरां गुरुकषायशैलाशनिं
विमुंक्तिपथवेसरी भजत भावनां किं परैः ॥ ८७ ॥ घनं दत्तं वित्तं जिनवचनमभ्यस्तमखिलं
क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमसकृत् ।
१. 'अपरं हतु समर्थ' ख-ग. २. पञ्चेन्द्रियाणि पश्चाक्षी. ३. 'निस्तारभोगः' ग. ४. 'तपःपादपोऽयम्' क-ग. ५. 'मित्सति' क-ग. ६. 'खण्डयितुमिच्छति' इति टीका. ७. मार्गोपयुक्तामश्वतरीम्.
५ का० स० गु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org