SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। तपस्तीनं तप्तं चरणमपि जीर्ण चिरतरं न चेच्चित्ते भावस्तुषपवनवत्सर्वमफलम् ॥ ८८ ॥ ____ अथ वैराग्यप्रक्रमः । यदशुभरजःपाथो हप्तेन्द्रियद्विरदानुशं कुशलकुसुमोद्यानं माद्यन्मनःकरिशृङ्खला । विरतिरमणीलीलावेश्म स्मरज्वरभेषजं शिवपथरथस्तद्वैराग्यं विमृश्य भवाभयः ॥ ८९॥ चण्डानिलः स्फुरितमब्दचयं दवार्चि वृक्षत्र तिमिरमण्डलमर्कबिम्बम् । वज्रं महीध्रनिवहं नयते यथान्तं वैराग्यमेकमपि कर्म तथा समग्रम् ॥ ९० ॥ नमस्या देवानां चरणवरिवस्या शुभगुरो स्तपस्या निःसीमक्लमपदमुपास्या गुणवताम् । निषद्यारण्ये स्यात्करणदमविद्या च शिवदा विरागः क्रूरागःक्षपणनिपुणोऽन्तः स्फुरसि चेत् ॥ ९१ ॥ भोगान्कृष्णभुजंगभोगविषमान्राज्यं रजःसंनिभं बन्धून्बन्धनिबन्धनानि विषयग्रामं विषान्नोपमम् । भूति भूतिसहोदरां तृणतुलं स्त्रैणं विदित्वा त्यजं. स्तेष्वासक्तिमनाविलो विलभते मुक्तिं विरक्तः पुमान् ॥ ९२॥ जिनेन्द्रपूजा गुरुपर्युपास्तिः सत्त्वानुकम्पा शुभपात्रदानम् । गुणानुरागः श्रुतिरागमस्य नृजन्मवृक्षस्य फलान्यमूनि ॥ ९३ ॥ त्रिसंध्यं देवा! विरचय चयं प्रापय यशः श्रियः पात्रे वापं जनय नयमार्ग नय मनः । स्मरक्रोधाद्यारीन्दलय कलय प्राणिषु दयां . जिनोक्तं सिद्धान्तं शृणु वृणु जवान्मुक्तिकमलाम् ॥ ९४ ।। १. 'चारित्रम्' इति टीका. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy