SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सूक्तिमुक्तावली। कृत्वाहत्पदपूजनं यतिजनं नत्वा विदित्वागमं हित्वा सङ्गमधर्मकर्मठधियां पात्रेषु दत्त्वा धनम् । गत्वा पद्धतिमुत्तमक्रमजुषां जित्वान्तरारिव्रजं स्मृत्वा पञ्चनमस्त्रियां कुरु करकोडस्थमिष्टं सुखम् ॥ ९५ ॥ प्रसरति यथा कीर्तिर्दिक्षु क्षपाकरसोदरा भ्युदयजननी याति स्फीतिं यथा गुणसंततिः । कलयति यथा वृद्धिं धर्मः कुकर्महतिक्षमः सुलभकुशले न्याय्ये कार्य तथा पथि वर्तनम् ॥ ९६ ॥ भवारण्यं मुक्त्वा यदि जिगमिषुर्मुक्तिनगरी तदानीं मा कार्षीविषयविषवृक्षेषु वसतिम् । यतश्छायाप्येषां प्रथयति महामोहमचिरा देयं जन्तुर्यस्मात्पदमपि न गन्तुं प्रभवति ॥ ९७ ॥ सोमप्रभाचार्यमभा च लोके वस्तु प्रकाशं कुरुते यथाशु। तथायमुच्चैरुपदेशलेशः शुभोत्सवज्ञानगुणांस्तनोति ॥ ९८ ॥ अभजदजितदेवाचार्यपट्टोदयाद्रि धुमणिविजयसिंहाचार्यपादारविन्दे । मधुकरसमतां यस्तेन सोमप्रमेण व्यरचि मुंनिपनेत्रा सूक्तिमुक्तावलीयम् ॥ ९९ ॥ इति श्रीसोमप्रभाचार्यविरचिता सिन्दूरप्रकरापरपर्याया सूक्तिमुक्तावली । १.जिनमतप्रसिद्धां पञ्चपरमेष्ठिनमस्कृतिम्. २. 'कुशलसुलभे' क-ख. ३. एतच्छोकानन्तरं क-पुस्तके 'करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणमनं मुखे सत्या वाणी श्रुतमधिगतं च श्रवणयोः । हृदि खच्छा वृत्तिर्विजयि भुजयोः पौरुषमहो विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥' अयं श्लोकोऽधिकः. ४. 'विमुच्यैनं दूरे भव जनमनःश. मसदनम् ख. ५. 'सोमप्रभाचार्यममा च यन्न पुंसां तमःपङ्कमपाकरोति । तदप्यमु. मिनुपदेशलेशे निशम्यमानेऽनिशमेति नाशम् ॥' अयं क-पुस्तकपाठः शृङ्गारवैराग्य. तरङ्गिणीधृतपाठसमानः । अत्र ग्रन्थका सोमप्रभाचार्य इति खकीयं नाम युक्त्या निवेशितम्. ६. अयं श्लोकः ख-ग-पुस्तकयो स्ति. ७. मुनीन्द्रनायकेन. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy