SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४७ सूक्तिमुक्तावली। श्रेयःपुञ्जनिकुञ्जभञ्जनमहावातं न चेदिन्द्रिय___ वातं जेतुमवैति भस्मनि हुतं जानीत सर्व ततः ॥ ७१ ॥ धर्मध्वंसधुरीणमभ्रमरसावारीणमापत्प्रथा___ लंकर्माणमशर्मनिर्मितिकलापारीणमेकान्ततः । सर्वान्नीनमनात्मनीनमॅनयात्यन्तीनमिष्टे यथा___ कामीनं कुंपथाध्वनीनमजयन्नक्षौधमक्षेमभाक् ।। ७२ ॥ ____ अथ लक्ष्मीस्वभावप्रक्रमः। निम्नं गच्छति निम्नगेव नितरां निदेव विष्कम्भते __ चैतन्यं मदिरेव पुष्यति मदं धूम्येव धत्तेऽन्धताम् । चापल्यं चपलेव चुम्बति दवज्वालेव तृष्णां नय त्युल्लासं कुलटाङ्गनेव कमला खैरं परिभ्राम्यति ॥ ७३ ।। दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति भूमीभुजो गृह्णन्ति च्छलमाकलय्य हुतभुग्भस्मीकरोति क्षणात् । अम्भः प्लावयते क्षितौ विनिहितं यक्षा हरन्ते हठा___ दुवृत्तास्तनया नयन्ति निधनं धिग्बह्वधीनं धनम् ।। ७४ ।। नीचस्यापि चिरं चटूनि रचयन्त्यायान्ति नीचैर्नति __ शत्रोरप्यगुणात्मनोऽपि विदधत्युचैर्गुणोत्कीर्तनम् । निर्वेदं न विदन्ति किंचिदकृतज्ञस्यापि सेवाक्रमे कष्टं किं न मनखिनोऽपि मनुजाः कुर्वन्ति वित्तार्थिनः ॥७५|| लक्ष्मीः सर्पति नीचमर्णवपयःसङ्गादिवाम्भोजिनी- संसर्गादिव कण्टकाकुलपदा न कापि धत्ते पदम् । चैतन्यं विषसंनिधेरिव नृणामुज्जासयत्यञ्जसा धर्मस्थाननियोजनेन गुणिभियं तदस्याः फलम् ॥ ७६ ॥ १. 'शान्तरसाच्छादनम्' इति टीका. २. 'सर्वभक्षकम्' इति टीका. ३. 'अनयेऽत्यन्तगामिनम्' इति टीका. ४. 'इष्टे वस्तुनि यथाकामीनं यथाभिलाषिणम्' इति टीका. ५. 'कुमत' क. ६. 'विनाशयति' इति टीका. ७. 'रतिम्' क. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy