SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। वस्त्वालोकमलोचनश्चलमना ध्यानं च वाञ्छत्यसौ यः सङ्गं गुणिनां विमुच्य विमतिः कल्याणमाकाङ्क्षति ॥६५॥ हरति कुमति भिन्ते मोहं करोति विवेकितां वितरति रतिं सूते नीति तनोति विनीतताम् । प्रथयति यशो धत्ते धर्म व्यपोहति दुर्गतिं जनयति नृणां किं नाभीष्टं गुणोत्तमसंगमः ॥ ६६ ॥ लब्धुं बुद्धिकलापमापदमपाकर्तुं विहर्तुं पथि प्राप्तुं कीर्तिमसाधुतां विधुवितुं धर्म समासेवितुम् । रोद्धं पापविपाकमाकलयितुं स्वर्गापवर्गश्रियं चेत्त्वं चित्त समीहसे गुणवता सङ्गं तदङ्गीकुरु ॥ ६७ ॥ हिमति महिमाम्भोजे चण्डानिलत्युदयाम्बुदे द्विरदति देयारामे क्षेमक्षमाभृति वज्रति । समिधति कुमत्यमौ कन्दत्यनीतिलतासु यः किमभिलषतां श्रेयः श्रेयान्स निर्गुणिसंगमः ॥ ६८ ॥ अथेन्द्रियप्रक्रमः । आत्मानं कुपथेन निर्गमयितुं यः सूकलाश्वायते कृत्याकृत्यविवेकजीवितहतौ यः कृष्णसर्पयते । यः पुण्यद्रुमखण्डखण्डनविधौ स्फूर्जत्कुठारायते तं लुप्तव्रतमुद्रमिन्द्रियगणं जित्वा शुभंयुभव ॥ ६९ ।। प्रतिष्ठां यन्निष्ठां नयति नयनिष्ठां विघटय त्यकृत्येष्वाधत्ते मतिमतपसि प्रेम तनुते । विवेकस्योत्सेकं विदलयति दत्ते च विपदं पदं तद्दोषाणां करणनिकुरम्बं कुरु वशे ॥ ७० ॥ धत्तां मौनमगारमुज्झतु विधिप्रागल्भ्यमभ्यस्यता मस्त्वन्तर्वणमागमश्रममुपादत्तां तपस्तप्यताम् । १. 'अपाहतु' ख. २. 'दमारामे' ख. ३. 'श्रेयः' क-ख. ४. 'शूकल' क. 'सूकलाश्वायते दुर्विनीततुरंग इवाचरति' इति टीका. ५. इन्द्रियसमूहम्. ६. वने तिष्ठतु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy