SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सूक्तिमुक्तावली। बाढं धनेन्धनसमागमदीप्यमाने लोभानले शलभतां लभते गुणौधः ॥ ५९॥ जातः कल्पतरुः पुरः सुरगवी तेषां प्रविष्टा गृहे चिन्तारत्नमुपस्थितं करतले प्राप्तो निधिः संनिधिम् । विश्वं वश्यमवश्यमेव सुलभाः खर्गापवर्गश्रियो ये संतोषमशेषदोषदहनध्वंसाम्बुदं बिभ्रते ॥ ६०॥ - अथ सुजनप्रक्रमः। वरं क्षिप्तः पाणिः कुपितफणिनो वक्रकुहरे वरं झम्पापातो ज्वलदनलकुण्डे विरचितः । वरं प्रासप्रान्तः सपदि जठरान्तर्विनिहितो न जन्यं दौर्जन्यं तदपि विपदां सद्म विदुषा ॥ ६१ ॥ सौजन्यमेव विदधाति यशश्चयं च ___ श्वश्रेयसं च विभवं च भवक्षयं च । दौर्जन्यमावहसि यत्कुमते तदर्थ _धान्येऽनलं क्षिपसि तजलसेकसाध्ये ॥ ६२ ॥ वरं विभववन्ध्यता सुजनभावभाजां नृणा मसाधुचरितार्तिता न पुनरूर्जिताः संपदः । कृशत्वमपि शोभते सहजमायतौ सुन्दरं विपाकविरसा नतु श्वयथुसंभवा स्थूलता ॥ ६३ ॥ न ब्रूते परदूषणं परगुणं वक्त्यल्पमप्यन्वहं संतोषं वहते परर्द्धिषु पराबाधासु धत्ते शुचम् । खश्लाघां न करोति नोज्झति नयं नौचित्यमुल्लङ्घयत्युक्तोऽप्यप्रियमक्षमां न रचयत्येतच्चरित्रं सताम् ॥ ६४ ।। ___ अथ गुणिसङ्गप्रक्रमः । धर्म ध्वस्तदयो यशश्च्युतनयो वित्तं प्रमत्तः पुमा काव्यं निष्प्रतिभस्तपः शमदमैः शून्योऽल्पमेधः श्रुतम् । १. 'शमदयाशून्यो' क. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy