SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। जात्यादिमानविषजं विषमं विकारं तं मार्दवामृतरसेन नयस्व शान्तिम् ॥ ५२ ॥ अथ मायाप्रक्रमः। कुशलजननवन्ध्यां सत्यसूर्यास्तसंध्यां कुगतियुवतिमालां मोहमातङ्गशालाम् । शमकमलहिमानीं दुर्यशोराजधानी व्यसनशतसहायां दूरतो मुञ्च मायाम् ॥ ५३ ॥ विधाय मायां विविधैरुपायैः परस्य ये वञ्चनमाचरन्ति । ते वञ्चयन्ति त्रिदिवापवर्गसुखान्महामोहसखाः खमेव ॥ ५४ ॥ मायामविश्वासविलासमन्दिरं दुराशयो यः कुरुते धनाशया। सोऽनर्थसाथै न पतन्तमीक्षते यथा बिडालो लगुडं पयः पिबन् ॥५५॥ मुग्धप्रतारणपरायणमुज्जिहीते यत्पाटवं कपटलम्पटचित्तवृत्तेः ।। जीर्यत्युपप्लवमवश्यमिहाप्यकृत्वा नापथ्यभोजनमिवामयमायतौ तत् ॥ ५६ ॥ अथ लोभप्रक्रमः। यदुर्गामटवीमटन्ति विकट क्रामन्ति देशान्तरं ___ गाहन्ते गहनं समुद्रमतनुक्लेशां कृषि कुर्वते । सेवन्ते कृपणं पतिं गजघटासंघदृदुःसंचरं सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम् ॥ ५७ ।। मोलं मोहविषद्रुमस्य सुकृताम्भोराशिकुम्भोद्भवः ___ क्रोधानेररणिः प्रतापतरणिप्रच्छादने तोयदः । क्रीडासद्मकलेविवेकशशिनः खर्भानुरापन्नदीसिन्धुः कीर्तिलताकलापकलभो लोभः पराभूयताम् ॥ ५८ ॥ निःशेषधर्मवनदाहविजृम्भमाणे दुःखौघभस्मनि विसर्पदकीर्तिधूमे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy