SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सूक्तिमुक्तावली। फलति कलितश्रेयःश्रेणीप्रसूनपरम्परः __प्रशमपयसा सिक्तो मुक्तिं तपश्चरणद्रुमः । यदि पुनरसौ प्रत्यासत्तिं प्रकोपहविर्भुजो ___ भजति लभते भस्मीभावं तदा विफलोदयः ॥ ४६॥ संतापं तनुते भिनत्ति विनयं सौहार्दमुत्सादय___ त्युद्वेगं जनयत्यवद्यवचनं सूते विधत्ते कलिम् । कीर्तिं कृन्तति दुर्मतिं वितरति व्याहन्ति पुण्योदयं __ दत्ते यः कुगतिं स हातुमुचितो रोषः सदोषः सताम् ॥ ४७ ॥ यो धर्म दहति द्रुमं दव इवोन्मन्नाति नीति लतां __दन्तीवेन्दुकलां विधुतुद इव क्लिश्नाति कीर्तिं नृणाम् । खार्थं वायुरिवाम्बुदं विघटत्युल्लासयत्यापदं तृष्णां धर्म इवोचितः कृतकृपालोपः स कोपः कथम् ॥ ४८॥ अथ मानप्रक्रमः । यस्मादाविर्भवति विततिर्दुस्तरापन्नदीनां यस्मिन्शिष्टाभिरुचितगुणग्रामनामापि नास्ति । यश्च व्याप्तं वहति वधधीधूम्यया क्रोधदावं तं मानाद्रिं परिहर दुरारोहमौचित्यवृत्तेः ॥ ४९ ॥ शमालानं भञ्जन्विमलमतिनाडी विघटय न्किरन्दुर्वाक्पांशूत्करमगणयन्नागमसृणिम् । भ्रमन्ना खैरं विनयवनवीथीं विदलय___ञ्जनः कं नानर्थं जनयति मदान्धो द्विप इव ॥ ५० ॥ औचित्याचरणं विलुम्पति पयोवाहं नभवानिव __ प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितम् । कीर्ति कैरविणी मतङ्गज इव प्रोन्मूलयत्यञ्जसा मानो नीच इवोपकारनिकरं हन्ति त्रिवर्ग नृणाम् ॥ ५१ ॥ मुष्णाति यः कृतसमस्तसमीहितार्थ संजीवनं विनयजीवितमङ्गभाजाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy