SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ४२ काव्यमाला। तोयत्यग्निरपि सजत्यहिरपि व्याघ्रोऽपि सारङ्गति व्यालोऽप्यश्वति पर्वतोऽप्युपलति श्वेडोऽपि पीयूषति । विघ्नोऽप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यपांनाथोऽपि स्वगृहत्यटव्यपि नृणां शीलप्रभावाद्धवम् ॥ ४० ॥ अथ परिग्रहप्रक्रमः। कालुष्यं जनयझंडस्य रचयन्धर्मद्रुमोन्मूलनं क्लिश्नन्नीतिकृपाक्षमाकमलिनी लोभाम्बुधिं वर्धयन् । मर्यादातटमुद्रुजञ्छुभमनोहंसप्रवासं दिशकिं न क्लेशकरः परिग्रहनदीपूरः प्रवृद्धिं गतः ॥ ४१ ॥ कलहकलभविन्ध्यः कोपगृध्रश्मशानं व्यसनभुजगरन्ध्र द्वेषदस्युपदोषः । सुकृतवनदवाग्निर्दिवाम्भोदवायु नयनलिनतुषारोऽत्यर्थमर्थानुरागः ॥ ४२ ॥ प्रत्यर्थी प्रशमस्य मित्रमधृतेर्मोहस्य विश्रामभूः पापानां खनिरापदां पदमसद्ध्यानस्य लीलावनम् । व्याक्षेपस्य निधिर्मदस्य सचिवः शोकस्य हेतुः कलेः केलीवेश्म परिग्रहः परिहृतेर्योग्यो विविक्तात्मनाम् ॥ ४३ ॥ वह्निस्तृप्यति नेन्धनैरिह यथा नाम्भोभिरम्भोनिधि स्तद्वल्लोभघनो घनैरपि धनैर्जन्तुर्न संतुष्यति । न त्वेवं मनुते विमुच्य विभवं निःशेषमन्यं भवं __ यात्यात्मा तदहं मुधैव विदधाम्येनांसि भूयांसि किम् ॥ ४४ ॥ अथ क्रोधप्रक्रमः । यो मित्रं मधुनो विकारकरणे संत्राससंपादने सर्पस्य प्रतिबिम्बमङ्गदहने सप्तार्चिषः सोदरः। चैतन्यस्य निषूदने विषतरोः सब्रह्मचारी चिरं स क्रोधः कुशलाभिलाषकुशलैर्निर्मूलमुन्मूल्यताम् ॥ ४५ ॥ १. जलस्य मूर्खस्य च. २. 'मोहघनो' क. ३. 'अन्यदहने' क. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy