SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। स्तोत्रस तव जिनेन्द्र गुणैर्निबद्धां __ भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् । धत्ते जनो य इह कण्ठगतामजस्रं तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥ ४८॥ इति श्रीमानतुङ्गाचार्यविरचितं भक्तामरस्तोत्रम् । श्रीसिद्धसेनदिवाकरप्रणीतं कल्याणमन्दिरस्तोत्रम् । कल्याणमन्दिरमुदारमवद्यभेदि भीताभयप्रदमनिन्दितमङ्घ्रिपद्मम् । संसारसागरनिमज्जदशेषजन्तु पोतायमानमभिनम्य जिनेश्वरस्य ॥ १ ॥ यस्य खयं सुरगुरुगरिमाम्बुराशेः स्तोत्रं सुविस्तृतमतिर्न विभुर्विधातुम् । १. मानतुङ्गमिति खकीयं नामाप्याचार्येण युक्त्या चरमपद्ये निवेशितम्. २. कल्याण मन्दिरस्तोत्रं सिद्धसेनदिवाकरेण प्रणीतमिति प्रसिद्धिरस्ति. स्तोत्रान्तिमपद्ये तु कुमुदचन्द्र इति कर्तुर्नाम लभ्यते. तच सिद्धसेनदिवाकरस्य गुरुणा दीक्षावसरे विहितं नामेति स्तोत्रटीकाकर्ता वक्ति. सिद्धसेनदिवाकरो विक्रमादित्यसमय उज्जयिन्यामागत इत्यादि प्रबन्धचिन्तामणौ विक्रमादित्यप्रबन्धे वर्तते. स च श्वेताम्बर आसीदित्यपि ततः एव प्रतीयते. दिगम्बरास्तु दिगम्बरमेनं वदन्ति. ख्रिस्ताब्दीयषष्टशतकोद्भूतः श्रीवराहमिहिराचार्यो बृहज्जातकस्य सप्तमेऽध्याये कंचन सिद्धसेननामानं गणक स्मरति, स चायमेव सिद्धसेनदिवाकरः स्यात्. अन्येऽपि द्वित्राः सिद्धसेना जैनेषु प्रसिद्धाः सन्ति. कल्याणमन्दिरस्तोत्रं तु दिगम्बराः श्वेताम्बराश्च पठन्ति. किं तु भक्तामरस्तोत्रवदस्य भूयस्यष्टीकाः प्रतिपद्यं मन्त्रास्तत्प्रभाव किंवदन्त्यश्च नातीव प्रच. रिताः सन्ति. मध्ये प्रक्षिप्तश्लोका अपि न दृश्यन्ते. अस्मदृष्टेषु निखिलेष्वपि पुस्तकेषु चतुश्चत्वारिंशत्पद्यान्येव वर्तन्ते. एतन्मुद्रणावसरे चास्माभिरेकं कर्तृनामरहितसंक्षिप्तटीकासमेतमपरं हिन्दीभाषान्तरसहितमिति पुस्तकद्वयं भगवानदासश्रेष्ठितः प्राप्तम्. द्वित्राणि मूलपुस्तकानि चेति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy