________________
भक्तामरस्तोत्रम् । वलगत्तुरङ्गगजगर्जितभीमनाद__ माजौ बलं बलवतामपि भूपतीनाम् । उद्यदिवाकरमयूखशिखापविद्धं
त्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥ ४२ ॥ कुन्तामभिन्नगजशोणितवारिवाह
वेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षा
स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ४३ ॥ अम्भोनिधौ क्षुभितभीषणनकचक्र
पाठीनपीठभयदोल्बणवाडवामौ । रङ्गत्तरङ्गशिखरस्थितयानपात्रा
स्वासं विहाय भवतः स्मरणाद्रजन्ति ॥ ४४ ॥ उद्भूतमीषणजलोदरभारभुमाः
शोच्यां दशामुपगताश्च्युतजीविताशाः। त्वत्पादपङ्कजरजोभृतदिग्धदेहा __ मां भवन्ति मकरध्वजतुल्यरूपाः ॥ ४५ ॥ आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा
गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः
सद्यः वयं विगतबन्धभया भवन्ति ॥ ४६॥ मत्तद्विपेन्द्रमृगराजदवानलाहि
सङ्ग्रामवारिधिमहोदरबन्धनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव
यस्तावकं स्तवमिमं मतिमानधीते ॥ ४७ ॥
१. वारिवाहा जलप्रवाहाः. २, 'चके' इति पाठः. ३. 'भमाः', 'ममाः' इति च पाठा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org