SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथस्तवः। एकस्त्वं प्रतिमानसं वससि यद्भव्यात्मनामेकदा . सर्वेषामथ च प्रयच्छसि फलं तेषां मनोवाञ्छितम् ॥ ९॥ यौष्माकीणगुणस्तुति विकिरती शुण्डामिवान्तर्गत प्रीतिं स्फीतिमतीमतीव सुरभिं दानाम्बुना बिभ्रती । त्रैलोक्यैकसुरद्रुम द्रुमवनानीवोन्मदा वासिता युष्मद्भक्तिरलं भनक्ति भविनामेनांसि हृद्वासिता ॥ १० ॥ आधारे स्थिरतोज्झिते किल भवत्याधेयमप्यस्थिरं सोऽयं ज्ञानपथस्तथापि किमपि खार्थेकनिष्ठो ब्रुवे । अश्रान्तं मम चञ्चलेऽपि मनसि स्वामिन्बधान स्थिति त्रैलोक्याधिप शक्तिभाजि यदि वा किं नोपपन्नं त्वयि ॥ ११ ॥ विश्वेश प्रसभं त्वदीययशसा व्यालुप्यमाने प्रभा सर्वखे जगदाक्रमैकपटुना नूनं द्विजानां पतिः । शस्त्रीं लाञ्छनकैतवात्प्रतिनिशं कुक्षिप्रदेशे क्षिप कोपाटोपवशादसावुदयते बिभ्रद्वपुलॊहितम् ॥ १२ ॥ वक्रेण त्वमपाहरः शशधरस्याखण्डमूर्तेः श्रियं __व्याकोशस्य कुशेशयस्य सुषमासर्वखमप्यग्रहीः । यत्तुल्यव्यसनादपि स्म जहितो नैतौ विरोधं मिथ स्तेनाकारि समानशीलविपदां सख्यप्रवादो मृषा ॥ १३ ॥ पुष्टाङ्गं व्यवहारनिश्चयनयप्रोत्तुङ्गशृङ्गं शुभं दानाद्यनिचतुष्टयं च विकसज्ज्ञानक्रियालोचनम् । नित्यच्छेकविवेकपुच्छलतिकं स्याद्वादपर्युल्लस त्पीनोच्चैःककुदं कुतीर्थतृणभुक्सूते वृषं गौस्तव ॥ १४ ॥ आकण्ठं कमठाम्बुदोज्झितपयःपूरे निमनाङ्गक स्योत्फुल्लं मुखपङ्कजं तव पपौ या कौतुकोत्कर्षतः । नागस्त्रैणविलोचनालिपटली संख्याय धुर्येव तां (2) धन्यानां गणनाक्षणे न खलु सा रेखान्यतः सर्पति ॥ १५॥ १. करिणी. १० का० स० गु० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy