SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १०८ काव्यमाला। कमानम्राङ्गिचेतःशिखिकुलविलसत्ताण्डवाडम्बरश्री हेतुः प्रेङ्खन्नखालीरुचिररुचितडिद्दामनेत्राभिरामः । प्रीतिं फुल्लत्फणामाग्मणिघृणिसुमनश्चापचित्रीकृतद्यौ यास्त्वं देशनावास्तनितसुखकरो मेघवन्मेऽघहन्तः ॥ ३ ॥ भिन्दंल्लोकप्रवाहप्रबलतरसरित्पूरमुच्चैर्वहन्तं ___ जन्तूनां चित्तभूमौ स जयति जगति त्वद्वचोवारिकान्तः । मुक्त्वा गाढं गृहीतानपि विनतजनान्यत्प्रवाहाद्भयार्तो भूयस्तन्मध्यमेव प्रविशति झटिति क्रूरमोहावतारः ॥ ४ ॥ लौल्याल्लावण्यलक्ष्मीमधुरमधुरसं त्वन्मुखाम्भोरुहोत्थं पायंपायं भरेण प्रणतभवभृतां नेत्रपुष्पंधयाल्यः । नूनं हर्षप्रकर्षोद्गतनयनपयःपूरदम्भेन दूरं मिथ्यादृग्लोचनानामसुलभ भगवन्सद्य एवोद्रिन्ति ॥ ५ ॥ निःस्यन्दानन्दकन्दः कलिमलकदलीकाण्डखण्डीकृतौ य__ कक्षाकौक्षेयकस्य क्षपितभवशतं नेत्रपीयूषसत्रम् । श्रेयःश्रीवल्लिहल्लीसकमलयमरुद्भाग्यमारोग्यलक्ष्म्या__ दर्शः कंदर्पदर्पद्विजपतिपतनं दर्शनं तावकीनम् ॥ ६ ॥ विद्याविद्याधरीणां मणिमयमुकुरः क्रूरवैरारिजैत्रो __ गात्रश्रीमैव्यपात्रीकृतरतिरमणः सच्चरित्रैः पवित्रः । सद्भोगाभोगभागी सुभगिमभवनं श्रीजिन श्रीद संप निष्कम्पः संपनीपद्यत इह मनुजः साधु नत्वा जिन त्वा ॥ ७ ॥ देव्या वाचोऽपि वाचामविषय दिविषन्मन्दिरद्वारसेवा हेवाकीसर्वनाकीश्वरमुकुटतटीघृष्टपादाम्बुजस्य । नेतश्चैतन्यशून्यः सकलकलयितुर्भुक्तिमात्रस्य दाता ___ भुक्तिं भुक्तिं च दातुः कथमिव भवतः कल्पवृक्षः सदृक्षः ॥ ८॥ चन्द्रः प्रेत्युदकाशयं प्रतिफलत्येको न चार्थक्रिया कारीत्येष न चास्तवांस्तव पुनर्वृत्तं जयत्यद्भुतम् । १. सरखयाः. २. प्रतिजलाशयम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy