SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथस्तवः । इमां समक्षं प्रतिपक्षसाक्षिणामुदारघोषामवघोषणां ब्रुवे । न वीतरागात्परमस्ति दैवतं न चाप्यनेकान्तमृते नयस्थितिः ॥ २८ ॥ न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदासत्वपरीक्षया तु त्वामेव वीर प्रभुमाश्रिताः स्मः ॥ २९ ॥ तमः स्पृशामप्रतिभासभाजं भवन्तमप्याशु विविन्दते याः । महेम चन्द्रांशुदृशा (१) वदातास्तास्तर्कपुण्या जगदीश वाचः ॥ ३० ॥ यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया । वीतदोष कलुषः स चेद्भवानेक एव भगवन्नमोऽस्तु ते ॥ ३१ ॥ इदं श्रद्धामात्रं तदथ परनिन्दां मृदुधियो विगाहन्तां हन्त प्रकृतिपरवादव्यसनिनः । अरक्तद्विष्टानां जिनवर परीक्षाक्षमधिया मयं तत्त्वलोकस्तुतिमयमुपाधिं विधृतवान् ॥ ३२ ॥ इति श्री हेमचन्द्रसूरिविरचितमयोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं श्री महावीरस्वामिस्तोत्रम् | श्री जिनप्रभसूरिविरचितः श्री पार्श्वनाथस्तवः । का मे वामेयशक्तिर्भवतु तव गुणस्तोमलेशप्रशस्तौ न स्याद्यस्यामधीशः सुरपति सचिवस्यापि वाणीविलासः । माने वा वार्धिवारां कलयति क इव प्रौढिमारूढधारां भक्तिव्यक्तिप्रयुक्तस्तदपि किमपि ते संस्तवं प्रस्तवीमि ॥ १ ॥ संसाराम्भोधिवेला निबिडजडमतिध्वान्तविध्वंस हंसः श्यामाश्यामाङ्गधामा (?) शठकमठतपोधर्मनिर्माथपाथः । स्फारस्फूर्जत्फणीन्द्रः प्रगुणफणमणिज्योतिरुद्दयोतिताशाचक्रश्चक्रिध्वज त्वं जय जिन विजितद्रव्यभावारिवार ॥ २ ॥ Jain Education International १. पार्श्वनाथस्तवादिस्तोत्रषङ्कं जिनप्रभसूरिप्रणीतमस्मभ्यं सूरतनगरवासिनां केवलदासात्मजेन भगवान् दासश्रेष्ठिना प्रहितम् पुस्तकान्तरं चास्य नोपलब्धमिति . १०७ For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy