SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ११० काव्यमाला | वन्दारोः प्रियकोपितप्रणयिनीहक्कोणशोण त्विषः सान्द्रस्निग्धसमुच्छलत्क्रमनख श्रेणीमयूखास्तव । त्वद्वृत्तस्तुतिदूतिका भिमुखितां पाणौ चिकीर्षोः शिवश्रीरामां नवपद्मरागमहितं बध्नन्तु मौलौ मम ॥ १६॥ एवं नृदेवमहितः सहितः प्रभावभूत्या प्रभूततमया विनुतो मयायम् । पार्श्वप्रभुर्विमलचिन्मयचित्तसौधमुत्तंसयत्त्ववृजिनप्रभसूरिवर्ण्यः ॥ १७ ॥ इति श्रीजिनप्रभसूरिविरचितः पार्श्वनाथस्तवः । श्रीजिनप्रभसूरिविरचितं गौतमस्तोत्रम् | श्रीमन्तं मगधेषु गोर्वर इति ग्रामोऽभिरामः श्रिया तत्रोत्पन्नम सन्नचित्तमनिशं श्रीवीरसेवाविधौ । ज्योतिःसंश्रयगौतमान्वयविपत्प्रद्योतनद्योमणि तापोत्तीर्णसुवर्णवर्णवपुषं भक्त्येन्द्रभूतिं स्तुवे ॥ १ ॥ के नाम नाभङ्गुरभाग्य दृष्ट्यै सुराणां स्पृहयन्ति सन्तः । निमेषविघ्नोज्झितमाननेन्दुज्योत्स्नां मनोहत्य तवापिबद्या ॥ २ ॥ निर्जित्य नूनं निजरूपलक्ष्म्या तृणीकृतः पञ्चशरस्त्वया सः । इत्थं न चेत्तर्हि कुतस्त्रिनेत्रनेत्रानलस्तं सहसा ददाह ॥ ३ ॥ पीत्वा गिरं ते गलितामृतेच्छाः सुराश्चिरं चक्रुरभोज्यमिन्दुम् । सुधाहदे तत्र मुनीश मन्ये लक्ष्मच्छलाच्छैवलमीक्ष्यतेऽन्तः ॥ ४ ॥ सौभाग्यभङ्गापि समाधिदाने प्रत्येति लोकः कथमेतदज्ञः । यत्त्वां समग्रा अपि लब्धिकान्ताः समालिलिङ्गः समकालमेव ॥ ५ ॥ त्वत्पादपीठे विलुठन्त्यमर्त्यास्त्वद्नेहभृत्याः किल कल्पवृक्षाः । तैरप्यमा हन्त तवोपमानोपमेयभावः कथमस्तु वस्तु ॥ ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy