________________
गोतमस्तोत्रम् |
पदोर्नखाली तव रोहिणीयं मुदे न कस्याद्भुतकृच्चरित्रा । वन्दारुपुंसां वदनेन्दुरन्तः प्रविष्टबिम्बोऽपि शिवाय यस्याः ॥ ७ ॥ यत्केवलज्ञानमविद्यमानमथात्मनि स्वान्तिषदामदास्त्रम् (१) । लोकोत्तरत्वे ननु तावकानां दिङ्मात्रमेतच्चरिताद्भुतानाम् ॥ ८ ॥ भवद्गुणानां स्तुतयो गुणज्ञैर्विधीयमाना विबुधाधिपाद्यैः । स्तुत्यन्तरस्तोत्रकथागणस्य समाप्तये वृत्करणीभवन्ति ॥ ९ ॥ न रागवानो भजसेऽतिचारं नालम्बसे वक्रगतिं कदाचित् । पुरस्कृतेनोऽपि घना नासि तथापि पृथ्वीतनयोऽसि रूढः ॥ १० ॥ प्रभो महावीरमुपास्य सम्यक्त्वयार्जितं यज्ज्ञकलारहस्यम् । गृहे यतित्वेऽप्यभिरूपरत्नत्रयीजुषा कीर्तिरतानि तेन ॥ ११ ॥ स्वद्वाणिमाधुर्यचिता पलाय्य सितोपला काचघटीं विवेश । तत्रापि भीतिं दधती शलाकाव्याजेन जग्राह तृणं तु वक्रे ॥ १२ ॥ श्रीवीरसेवारसलालसत्वात्तद्वाधिनीं केवलबोधलक्ष्मीम् ।
:
अप्ययगतामादरिणीं वरीतुं तृणाय मत्वा त्वमिमन्वमंस्थाः (१) ॥ १३ ॥ अपोढपके कविभिर्निषेव्ये निरस्ततापे बहुभङ्गजाले । विभो भवद्वाङ्मुखगाङ्गपूरे दुर्वादिपूगास्तृणवत्तरन्ति ॥ १४ ॥ राकामये दिग्वलये समन्ताद्यशः शशाङ्केन ध्रुवं कृते ते । कुहूध्वनिः केवलमेव कण्ठदेशं पिकानां शरणीचकार ॥ १५ ॥ जगत्रयोद्भासि यशस्तवैतत्क्व स्पर्धतां सार्धमनेन चन्द्रः । यस्यापरार्धेऽपि तृणस्य (?) नैव प्रभाप्रभावो लभतेऽवकाशम् ॥ १६ ॥ छत्रेन्दुपद्मादिषु रूढिमात्रं त्वन्नानि तु श्रीर्वसतीति पुष्टिः । कुतोऽन्यथा तज्जपदीक्षितानां पुरःपुरो नृत्यति नित्यमृद्धिः ॥ १७ ॥ वसुभूतिसुतोऽपि कौतुकं वसुभूतेर्जनकः प्रणेमुषाम् । भगवन्नभवोऽपि वर्तसे कथमङ्गीकृतसर्वमङ्गलः ॥ १८ ॥ नाधः करोषि वृषमीश गणाधिपोऽपि
धत्से सदाशयमपाशमपि प्रचेताः ।
Jain Education International
१११
For Private & Personal Use Only
www.jainelibrary.org