________________
विषापहारस्तोत्रम् ।
२५ प्रशस्तवाचश्चतुराः कषायैर्दग्धस्य देवव्यवहारमाहुः । गतस्य दीपस्य हि नन्दितत्वं दृष्टं कपालस्य च मङ्गलत्वम् ॥ २८ ॥ नानार्थमेकार्थमदस्त्वदुक्तं हितं वचस्ते निशमय्य वक्तः। निर्दोषतां के न विभावयन्ति ज्वरेण मुक्तः सुगमः खरेण ॥ २९ ॥ न कापि वाञ्छा वैवृते च वाक्ते काले क्वचित्कोऽपि तथा नियोगः ।, न पूरयाम्यम्बुधिमित्युदंशुः खयं हि शीतद्युतिरभ्युदेति ॥ ३० ॥ गुणा गभीराः परमाः प्रसन्ना बहुप्रकारा बहवस्तवेति । दृष्टोऽयमन्तः स्तवने न तेषां गुणो गुणानां किमतः परोऽस्ति ॥ ३१॥ स्तुत्या परं नाभिमतं हि भक्त्या स्मृत्या प्रणत्या च ततो भजामि । स्मरामि देवं प्रणमामि नित्यं केनाप्युपायेन फलं हि साध्यम् ॥ ३२ ॥ ततस्त्रिलोकीनगराघिदेवं नित्यं परं ज्योतिरनन्तशक्तिम् । अपुण्यपापं परपुण्यहेतुं नमाम्यहं वन्द्यमवन्दितारम् ॥ ३३ ॥ अशब्दमस्पर्शमरूपगन्धं त्वां नीरसं तद्विषयावबोधम् । सर्वस्य मातारममेयमन्यैर्जिनेन्द्रमस्मार्यमनुस्मरामि ॥ ३४ ॥ अगाधमन्यैर्मनसाप्यलयं निष्किचनं प्रार्थितमर्थवद्भिः । विश्वस्य पारं तमदृष्टपारं पतिं जनानां शरणं व्रजामि ॥ ३५ ॥ त्रैलोक्यदीक्षागुरवे नमस्ते यो वर्धमानोऽपि निजोन्नतोऽभूत् । प्राग्गण्डशैलः पुनरद्रिकल्पः पश्चान्न मेरुः कुलपर्वतोऽभूत् ॥ ३६ ॥ खयंप्रकाशस्य दिवा निशा वा न बाध्यता यस्य न बाधकत्वम् । न लाघवं गौरवमेकरूपं वन्दे विभुं कालकलामतीतम् ।। ३७ ॥ इति स्तुति देव विधाय दैन्याद्वरं न याचे त्वमुपेक्षकोऽसि । छायातलं संश्रयतः खतः स्यात्कश्छायया याचितयात्मलाभः ॥ ३८ ॥
१. पूर्वापरविरोधरहितार्थम्. २. प्रवृत्ता. ३. उत्कृष्टाः. ४. खयमेवोन्नतः, न तु क्रमेण वर्धमानः. वर्धमान इति च महावीरखामिनो नामान्तरम्. यथा मेरुः पूर्व गण्ड. शैलतुल्यस्तदनन्तरं पर्वतकल्पस्ततः कुलपर्वतोऽभूदिति न क्रमः. उत्पत्तिसमकालमेव कुलपर्वतत्वं मेरोः. एवं जिनोऽपि जन्मनैवोन्नतो न तु नामानुरूपं क्रमेण वर्धमान इति तात्पर्यम्.
३ का० स० गु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org