SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २६ काव्यमाला। अथास्ति दित्सा यदि वोपरोधस्त्वय्येव सक्तां दिश भक्तिबुद्धिम् । करिष्यते देव तथा कृपां मे को वात्मपोष्ये सुमुखो न सूरिः ॥ ३९ ॥ वितरति विहिता. यथाकथंचिन्जिन विनताय मनीषितानि भक्तिः । त्वयि नुतिविषया पुनर्विशेषादिशति सुखानि यशो धनं जयं च ॥४०॥ इति श्रीधनंजयकृतं विषापहारस्तोत्रम् ॥ श्रीभूपालकविप्रणीता जिनचतुर्विशतिका। श्रीलीलायतनं महीकुलगृहं कीर्तिप्रमोदास्पदं वाग्देवीरतिकेतनं जयरमाक्रीडानिधानं महत् । स स्यात्सर्वमहोत्सवैकभवनं यः प्रार्थितार्थप्रदं प्रातः पश्यति कल्पपादपदलच्छायं जिनानिद्वयम् ॥ १॥ शान्तं वपुः श्रवणहारि वचश्चरित्रं सर्वोपकारि तव देव ततः श्रुतज्ञाः । संसारमारवमहास्थलरेन्दसान्द्र च्छायामहीरुह भवन्तमुपाश्रयन्ते ।। २ ।। खामिन्नद्य विनिर्गतोऽस्मि जननीगर्भान्धकूपोदरा दद्योद्घाटितदृष्टिरस्मि फलवजन्मास्मि चाद्य स्फुटम् । त्वामद्राक्षमहं यदक्षयपदानन्दाय लोकत्रयी नेत्रेन्दीवरकाननेन्दुममृतस्यन्दिप्रभाचन्द्रिकम् ।। ३ ।। निःशेषत्रिदशेन्द्रशेखरशिखारत्नप्रदीपावली सान्द्रीभूतमृगेन्द्रविष्टरतटीमाणिक्यदीपावलिः । क्वेयं श्रीः क च निःस्पृहत्वमिदमित्यूहातिगस्त्वादृशः सर्वज्ञानदृशश्चरित्रमहिमा लोकेश लोकोत्तरः ॥ ४ ॥ १. द्वित्राणि मूलपुस्तकान्येका च टीकास्य स्तोत्रस्यास्माभिः समासादिता. तत्र टीकायां तत्कर्तुर्नाम नास्ति. २. पण्डिताः. ३. रुन्दा विस्तीर्णा. ४. सिंहासनस्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy