SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ .जिनचतुर्विंशतिका । राज्य शासनकारिनाकपति यत्त्यक्तं तृणावज्ञया हेलानिर्दलितत्रिलोकमहिमा यन्मोहमल्लो जितः । लोकालोकमपि (१) खबोधमुकुरस्यान्तः कृतं यत्त्वया । सैषाश्चर्यपरम्परा जिनवर क्वान्यत्र संभाव्यते ॥ ५ ॥ दानं ज्ञानधनाय दत्तमसकृत्पात्राय सद्वृत्तये चीर्णान्युग्रतपांसि तेन सुचिरं पूजाश्च बयः कृताः। शीलानां निचयः सहामलगुणैः सर्वः समासादितो __ दृष्टस्त्वं जिन येन दृष्टिसुभगः श्रद्धापरेण क्षणम् ॥ ६ ॥ प्रज्ञापारमितः स एव भगवान्पारं स एव श्रुत__ स्कन्धाब्धेर्गुणरत्नभूषण इति श्लाघ्यः स एव ध्रुवम् । नीयन्ते जिन येन कर्णहृदयालंकारतां त्वद्गुणाः ___ संसाराहिविषापहारमणयस्त्रैलोक्यचूडामणे ॥ ७ ॥ जयति दिविजवृन्दान्दोलितैरिन्दुरोचि निचयरुचिभिरुच्चैश्चामरैर्वीज्यमानः । जिनपतिरनुरज्यन्मुक्तिसाम्राज्यलक्ष्मी युवतिनवकटाक्षक्षेपलीलां दधानः ॥ ८ ॥ देवः श्वेतातपत्रत्रयचमरिरुहाशोकभाश्चक्रभाषा पुष्पौघासारसिंहासनसुरपटहैरष्टभिः प्रातिहाथैः । (2) साश्चर्यजमानः सुरमनुजसभाम्भोजिनीभानुमाली पायान्नः पादपीठीकृतसकलजगत्पालमौलिर्जिनेन्द्रः ॥९॥ नृत्यत्वर्दन्तिदन्ताम्बुरुहवननटन्नाकनारी निकायः ___ सद्यस्त्रैलोक्ययात्रोत्सवकरनिनदातोद्यमाद्यन्निलिम्पः । हस्ताम्भोजातलीलाविनिहितसुमनोदामरम्यामरस्त्री काम्यः कल्याणपूजाविधिषु विजयते देव देवागमस्ते ॥ १० ॥ १. आज्ञाविधेयः शक्रो यस्मिन्. २. चमरिरहं चामरम्, भाश्चक्रं भामण्डलम् , भाषा दिव्यध्वनिः. 'अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाम् ॥' इति शान्तिपाठे पद्यम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy