SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। चक्षुष्मानहमेव देव भुवने नेत्रामृतस्यन्दिनं त्वद्वकेन्दुमतिप्रसादसुभगैस्तेजोभिरुद्भासितम् । येनालोकयता मयानतिचिराच्चक्षुः कृतार्थीकृतं द्रष्टव्यावधिवीक्षणव्यतिकरव्याजृम्भमाणोत्सवम् ॥ ११ ॥ कन्तोः सकान्तमपि मल्लमवैति कश्चि न्मुग्धो मुकुन्दमरविन्दजमिन्दुमौलिम् । मोघीकृतत्रिदशयोषिदपाङ्गपात स्तस्य त्वमेव विजयी जिनराज मल्लः ॥ १२ ॥ किसलयितमनल्पं त्वद्विलोकाभिलाषा कुसुमितमतिसान्द्रं त्वत्समीपप्रयाणात् । मम फलितममन्दं त्वन्मुखेन्दोरिदानीं __नयनपथमवाप्ताद्देव पुण्यद्रुमेण ॥ १३ ॥ त्रिभुवनवनपुष्प्यत्पुष्पकोदण्डदर्प प्रसरदवनवाम्भोमुक्तिसूक्तिप्रसूतिः । स जयति जिनराजबातजीमूतसङ्घः शतमखशिखिनृत्यारम्भनिर्बन्धबन्धुः ॥ १४ ॥ भूपालखर्गपालप्रमुखनरसुरश्रेणिनेत्रालिमाला लीलाचैत्यस्य चैत्यालयमखिलजगत्कौमुदीन्दोर्जिनस्य । उत्तंसीभूतसेवाञ्जलिपुटनलिनीकुमलास्त्रिः परीत्य श्रीपादच्छाययापस्थितभवदवथुः संश्रितोऽस्मीव मुक्तिम् ॥१५॥ देव त्वदङ्गिनखमण्डलदर्पणेऽस्मि नये निसर्गरुचिरे चिरदृष्टवक्रः । श्रीकीर्तिकान्तिधृतिसंगमकारणानि भव्यो न कानि लभते शुभमङ्गलानि ॥ १६ ॥ १. कामस्य. २. माद्यन्. ३. जिनानां गणधरदेवानां राजानस्तेषां प्रातः समूह एक मेघसंघ इति टीका. ४. वृक्षविशेषस्य. ५. अपस्थितो दूरीभूतः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy