________________
जिनचतुर्विशतिका। जयति सुरनरेन्द्रश्रीसुधानिझरिण्याः
कुलधरणिधरोऽयं जैनचैत्याभिरामः । प्रविपुलफलधर्मानोकहानप्रवाल
प्रसरशिखरशुम्भत्केतनः श्रीनिकेतः ॥ १७ ॥ विनमदमरकान्ताकुन्तलाक्रान्तकान्ति
स्फुरितनखमयूखद्योतिताशान्तरालः ।। दिविजमनुजराजव्रातपूज्यक्रमाजो
जयति विजितकारातिजालो जिनेन्द्रः ॥ १८ ॥ सुप्तोत्थितेन सुमुखेन सुमङ्गलाय
द्रष्टव्यमस्ति यदि मङ्गलमेव वस्तु । अन्येन किं तदिह नाथ तवैव वक्र
त्रैलोक्यमङ्गलनिकेतनमीक्षणीयम् ॥ १९ ॥ त्वं धर्मोदयतापसाश्रमशकस्त्वं काव्यबन्धक्रम
क्रीडानन्दनकोकिलस्त्वमुचितः श्रीमल्लिकाषट्पदः । त्वं पुन्नागकथारविन्दसरसीहंसस्त्वमुत्तंसकैः
कैर्भूपाल न धार्यसे गुणमणिसम्मालिभिर्मोलिभिः ॥ २० ॥ शिवसुखमजरश्रीसंगमं चाभिलष्य __ खममि नियमयन्ति क्लेशपाशेन केचित् । वयमिह तु वचस्ते भूपतेर्भावयन्त
स्तदुभयमपि शश्वल्लीलया निर्विशामः ॥ २१ ॥ देवेन्द्रास्तव मज्जनानि विदधुर्देवाङ्गना मङ्गला
न्यापेठुः शरदिन्दुनिर्मलयशो गन्धर्वदेवा जगुः । शेषाश्चापि यथानियोगमखिलाः सेवां सुराश्चक्रिरे
तत्किं देव वयं विदध्म इति नश्चित्तं तु दोलायते ॥ २२ ॥ देव त्वजननाभिषेकसमये रोमाञ्चसत्कञ्चकै
देवेन्द्रैर्यदनति नर्तनविधौ लब्धप्रभावैः स्फुटम् ।
१. हे जगत्पालक.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org