SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। किंचान्यत्सुरसुन्दरीकुचतटप्रान्तावनद्धोत्तम प्रेडद्वल्लकिनादझंकृतमहो तत्केन संवर्ण्यते ॥ २३ ॥ देव त्वत्प्रतिबिम्बमम्बुजदलोरेक्षणं पश्यतां यत्रास्माकमहो महोत्सवरसो दृष्टेरियान्वर्तते । साक्षात्तत्र भवन्तमीक्षितवतां कल्याणकाले तदा देवानामनिमेषलोचनतया वृत्तः स किं वर्ण्यते ॥ २४ ॥ दृष्टं धाम रसायनस्य महतां दृष्टं निधीनां पदं ___दृष्टं सिद्धरसस्य सद्म सदनं दृष्टं च चिन्तामणेः । किं दृष्टैरथवानुषङ्गिकफलैरेभिर्मयाद्य ध्रुवं दृष्टं मुक्तिविवाहमङ्गलगृहं दृष्टे जिनश्रीगृहे ॥ २५ ॥ दृष्टस्त्वं जिनराजचन्द्र विकसद्भूपेन्द्रनेत्रोत्पले __ स्नातं त्वन्नुतिचन्द्रिकाम्भसि भवद्विद्वच्चकोरोत्सवे । नीतश्चाद्य निदाघजः क्लमभरः शान्तिं मया गम्यते देव त्वद्गतचेतसैव भवतो भूयात्पुनदर्शनम् ॥ २६ ॥ इति श्रीभूपालकविप्रगीता जिनचतुर्विंशतिका ॥ समाप्तेयं जिनपञ्चस्तवी। श्रीदेवनन्दिप्रणीतं सिद्धिप्रियस्तोत्रम् । सिद्धिप्रियैः प्रतिदिनं प्रतिभासमान जन्मप्रबन्धमथनैः प्रतिभासमानैः । श्रीनॉभिराजतनुभूपदवीक्षणेन प्रापे जनैर्वितनुभूपदवी क्षणेन ॥ १ ॥ येन स्मरास्त्रनिकरैरपराजितेन सिद्धिर्वधूभ्रुवमबोधि पराजितेन । १. जन्माभिषेके. २. स्तोत्रस्यास्य त्रिचतुराणि मूलपुस्तकान्येवोपलब्धानि, टीका तु न प्राप्ता. एकस्मिन्मूलपुस्तके टिप्पणं वर्तते तदेवात्रोद्धृतम्. ३. देदीप्यमानैः. ४. प्रतिभयानुपमैः. ५. नाभिराजतनुभूवृषभनाथस्वामी तच्चरणविलोकनेन. ६. वितनवो मुक्तास्तेषां भूर्मोक्षभूमिस्तस्याः पदवी मार्गो रत्नत्रयात्मकः. ७. परा उत्कृष्टा, अजितेन एतन्नाम्ना जिनेन. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy