________________
भक्तामरस्तोत्रम् ।
कुन्दावदातचलचामरचारुशोभं
विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्करुचिनिर्झरवारिधार
मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥ ३० ॥ छत्रत्रयं तव विभाति शशाङ्ककान्त
मुच्चैःस्थितं स्थगितभानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोभं
प्रख्यापयत्रिजगतः परमेश्वरत्वम् ॥ ३१ ॥ [गम्भीरताररवपूरितदिग्विभाग
त्रैलोक्यलोकशुभसंगमभूतिदक्षः । सद्धर्मराजजयघोषणघोषकः स__न्खे दुन्दुभिर्नदति ते यशसः प्रवादी ॥ ३२ ।। मन्दारसुन्दरनमेरुसुपारिजात
संतानकादिकुसुमोत्करवृष्टिरुद्धा । गन्धोदबिन्दुशुभमन्दमरुत्प्रयाता
दिव्या दिवः पतति ते वचसां ततिर्वा ॥ ३३ ॥ शुंभत्प्रभावलयभूरिविभा विभोस्ते
लोकत्रये द्युतिमतां युतिमाक्षिपन्ती । प्रोद्यदिवाकरनिरन्तरभूरिसंख्या
दीप्त्या जयत्यपि निशामपि सोमसौम्याम् ॥ ३४ ॥ खर्गापवर्गगममार्गविमार्गणेष्टः ___ सद्धर्मतत्त्वकथनैकपटुस्त्रिलोक्याः । दिव्यध्वनिर्भवति ते विशदार्थसर्व
भाषास्वभावपरिणामगुणप्रयोज्यः ॥ ३५ ॥]
१. गम्भीरेत्यादिपद्यचतुष्टयं श्वेताम्बरैर्न व्याख्यातम्. अस्माकमप्येतत्प्रक्षिप्तमेव भाति. २. 'ध्वनति'. उद्धा प्रशस्ता. मतल्लिकादयः शब्दाः समासान्तर्गता एव प्रशस्तवाचकाः उद्धशब्दस्तु समासं विनापीति रामाश्रम्यां द्रष्टव्यम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org