SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तागमस्तवः । युक्तय एव मुक्ता मौक्तिकानि तासां निष्पादकत्वात्खातिनीरम् । प्रमेयाः पदार्थास्त एवोर्मयः कल्लोलास्तेषां महोदधिम् । महाभाष्यमित्यपर आह्वयो यस्य तद्विशेषावश्यक स्तौमि ॥ दशवैकालिकं मेरुमिव रोचिष्णुचूलिकम् । प्रीतिक्षेत्रं सुमनसां सत्कल्याणमयं स्तुमः ।। ४ ।। विकालेनापराहरूपेण निर्वृत्तानि वैकालिकानि दशाध्ययनानि यत्र तत् शय्यंभवसूरिकृतं दशवैकालिकं मेरुमिव रोचिष्णू चूलिके इह खचूलिपारूपे यत्र । पक्षे चत्वारिंशद्योजनमाना । सुमनसामुत्तमानां पक्षे देवानां प्रीतिस्थानम् । सत्कल्याणमयं श्रेयोमयं पक्षे सुवर्णमयं स्तुमः ॥ उद्धामुपोद्धातविकल्पकालभेदप्रभेदप्रतिभेदरूपाम् । मिताभिधानाममिताभिधेयां नौम्योपनियुक्तिममोषयुक्तिम् ॥ ५॥ उद्धां प्रशस्यां मितामिधानां स्तोकशब्दाममिताभिधेयां बह्वर्थाममोघयुक्तिं सफलयुक्तिमोधनियुक्ति नौमि स्तौमि । किंविशिष्टाम् । उपोद्धातः शास्त्रस्यादिस्तस्य विकल्पा द्वाराणि 'उद्देसे निदेसे निग्गमे' इत्यादीनि षडिशतिः। तत्र विकल्परूपाखस्य मेदा एकादश नामस्थापनाद्रव्यादयः 'दव्वे अठ्ठअहाउ अउवक्कमे' इत्यादिगाथोकास्तेषु षष्ठमेदस्योपक्रमकालस्य प्रमेदौ सामाचार्युपक्रमकालः यथायुष्कोपक्रमकालश्च । तयोः प्रथमस्य त्रयः प्रतिमेदाः ओघसामाचारी इच्छाकारादिदशविधसामाचारी पदविभागसामाचारी च त्रिषु ओघःसामान्यं संक्षेपाभिधानरूपा सामाचारी तद्रूपा ओघनियुक्तिः श्रीभद्रबाहुखामिना नवमपूर्वोत्ततीयादाचाराभिधवस्तुनो विंशतितमप्राभृतानियूंढा सांप्रतिक. साधूनां हितायास्मिन्काले स्थिरीकृता श्रीआवश्यकनियुक्तौ गणधरवादस्याग्रे संप्रति च सुखपाठाय पृथग्ग्रन्थरूपा विहितास्ति ताम् ॥ पिण्डविधिप्रतिपत्तावखण्डपाण्डित्यदानदुर्ललिताम् ।। ललितपदश्रुतिमिष्टामभिष्टुमः पिण्डनियुक्तिम् ॥ ६ ॥ पिण्डस्याहारस्य विधिर्दोषरहितत्वेन विशुद्धतज्ज्ञाने संपूर्णकौशलवितरणसक्कां ललितानां सुकोमलानां पदानां श्रुतिः श्रवणं तया मिष्टां (मृष्टां) मधुरां पिण्डनियुक्ति वयमभिष्टुमः॥ प्रवचननाटकनान्दी प्रपञ्चितज्ञानपञ्चकसतत्त्वा । अस्माकममन्दतमं कन्दतमं कन्दलयतु नन्दिरानन्दम् ॥ ७ ॥ प्रवचनं जिनमतमेव नाटकं तत्र नान्दी द्वादशतूर्यनिर्घोषः तन्मूलखानाटकस्य । प्रपञ्चितं प्रकटीकृतं ज्ञानपञ्चकस्य मतिश्रुतावधिमनःपर्ययकेवलज्ञानरूपस्य सतत्त्वं खरूपं यया सा नन्दिरस्माकममन्दतमं बहुतरमानन्दं कन्दलयतु वर्धयतु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy