SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । अनुयोगद्वाराणि द्वाराणीवापुनर्भवपुरस्य । जीयासुः श्रुतसौधाधिरोहसोपानरूपाणि ॥ ८॥ श्रुतमेव सौधं गृहं तदरोहे सोपानरूपाणि अपुनर्भवपुरस्य मोक्षनरस्य द्वाराणीवानुयोगद्वाराणि जीयासुः ॥ अनवमनवमरससुधाहदिनी पत्रिंशदुत्तराध्ययिनीम् । अञ्चामि पञ्चचत्वारिंशतमृषिभाषितानि तथा ॥९॥ अनवमो रम्यो यो नवमो रसः शान्ताख्यः स एव सुधामृतं तस्य ह्रदिनी नदी षट्त्रिंशद्यान्युत्तराणि प्रधानान्यध्ययनानि [यस्यां] तामहमञ्चयामि पूजयामि । तथा पञ्चचत्वारिंशतं श्रीनेमिपार्श्वश्रीवीरतीर्थवर्तिभिर्नारदादिभिः प्रणीतानध्ययनविशेषान् ॥ उच्चैस्तरोदञ्चितपञ्चचूडमाचारमाचारविचारचारु । महापरिज्ञास्थनभोगविद्यमाद्यं प्रपद्ये गमनं गजेन्द्रम् ॥ १०॥ आचारविचारचारु योगानुष्ठानपूर्व यथा स्यादेवम् आचारप्रतिपादकत्वादाचार नामाद्य मामहं प्रपद्ये श्रये । किंविशिष्टम् । उच्चैस्तराः शब्दार्थाभ्यामतिशायिन्य उदश्चिताः प्रकटीकृताः पञ्च चूडा येन तत् । उक्तशेषानुवादिनोऽधिकारविशेषाश्चूडासंज्ञाः । पुनः किविविष्टम् । महापरिज्ञानामाध्यायनं तत्रस्था आकाशगमिनीविद्या तस्य । तत एवोद्धृत्य श्रीवज्रखामिना प्रभावना कृता ॥ त्रिषष्टिसंयुक्तशतत्रयीमितप्रवाददर्पाद्रिविभेदहादिनीम् । द्वयश्रुतस्कन्धमयं शिवश्रिये कृतस्पृहः सूत्रकृदङ्गमाद्रिये ॥ ११ ॥ श्रुतस्कन्धद्वयरूपं सूत्रकृदङ्गं शिवश्रिये कृतस्पृहोऽहमाद्रिये आश्रयामि । किंविशिष्टम् । त्रिषष्ट्यधिकशतत्रयीमिता । ये प्रवादिनः क्रियावादिप्रभृतयस्तेषां दर्पाद्रिविमेदे हादिनी वज्रसमम् ॥ स्थानाङ्गायदशस्थानस्थापिताखिलवस्तुने । नमामि कामितफलप्रदानसुरशाखिने ॥ १२ ॥ कामितफलप्रदानसुरशाखिने तिष्ठन्ति प्रतिपाद्यजीवादयः पदार्था [येषु] इति स्थानान्यधिकारविशेषाः तथाहि-तनुइन्दा.................कम्म बन्धन्ति' इत्यादयः । एवमेतेषु दशस्थानेषु स्थापितान्यखिलवस्तूनि यत्र तस्मै स्थानाङ्गायाहं नमामि । 'विवक्षातः कारकाणि भवन्ति' इति न्यायात्स्थानाङ्गायेति संप्रदानम् ॥ तत्तत्संख्याविशिष्टार्थप्ररूपणपरायणम् । संस्तुमः समवाया समवायैः स्तुतं सताम् ।। १३ ।। तास्ता एकादिदशान्ताः संख्यास्ताभिर्विशिष्टा येऽर्थास्तेषां प्ररूपणं कथनं तत्र परायणं तत्परं सतां समवायैः समूहैः समवायाझं वयं स्तुमः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy