________________
श्रीमहावीरखामिस्तोत्रम् । निःसीमभीमभवसंभवरूढगूढ१. संमोहभूवलयदारणसारसीरम् । वीरं कुवासमलहारिसुवारिपूर___ मुत्तुङ्गमारकरिकेसरिणं नमामि ॥ १३ ॥ मिन्दन्तमन्तरणकारणमन्तरायं - संरुद्धरोगसमवायमलोभमायम् । उच्छिन्नमोहतिमिरावरणावसायं __ वीरं नमामि नवहेमसमिद्धकायम् ॥ १४ ॥ वन्दारुवासवसुरासुरभासुरालं '• कारामलच्छविपरागसमुद्भुराणि । सेवामि ते चरणवारिरुहाणि भूरि
संदेहरेणुहरणोरुसमीर वीर ॥ १५ ॥ अञ्चामि ते चरणतामरसालिलीला
संघायि पञ्चममहागणधारिवाणी (४) । संबन्धबुद्धिकरुणालयलिङ्गसिद्ध-: _ 'संधावलीदमिगणं चरणं चरन्तम् ॥ १६ ॥ (१) उच्चण्डधारकरवालकरारिवार
विच्छिन्नकुम्भगलनालकरालनागे । कुन्तासितोमरविभिन्नपरासुदेहे __ कङ्कालसंकुलभयावहभूमिभागे ॥ १७ ॥ सावेगहुंकरणडामरमुण्डरुण्ड
कीलाललालसविहंगकुलावरुद्धे । आबद्धबाणविसरे सहसा नुवन्तो
वीरं नरा रणभरेऽरिबलं यजन्ति ॥१८॥ (युगलकम् ) आसन्नसिद्धिकमलापरिरम्भलम्भ
दम्भोलिपाणिमिव मोहगिरि किरन्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org