________________
चतुर्विंशतिजिनस्तुतिः।
१५५ तदेवारिस्तस्य । सदानो दानसहितः । दीनानां कृपणानाम् । अयमेषः । अलमतिमात्रम् । अतिशयेन दारैः कलत्रैरीरितो धैर्याच्चालितो दारेरिततमः । न एवंविधः अदारेरिततमः ॥
जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधो
गुरुर्वाहोऽपातापदघनगरीयानसुमतः । कृतान्तस्त्रासीष्ट स्फुटविकटहेतुप्रमितिभा
गुरुर्वाहोऽपाता पदघनगरीयानसुमतः ॥ ८३ ।। कृतान्तः सिद्धान्तोऽसुमतः प्राणिनस्त्रासीष्ट रक्षतात् । कस्मात् । जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधः । व्यालः सर्पः । रुजो जलोदरादिरोगाः बन्धन कारानिरोधादि । युत्सङ्ग्रामः । जलादीनां सकाशादित्यर्थः । किंभूतः । गुरुर्महान् । वाहोऽश्वः । न विद्यते पातश्च्यवनं आपद्विपत् अघं पापं च यस्यां सा चासौ नगरी च युक्त्या मुक्तिरेव तस्या याने गमने सुष्टु मतोऽभिप्रेतः । स्फुटा अविसंवादिन्यो विकटा विस्तृता हेतुप्रमितयः हेतवः प्रमाणानि च भजते यः स्फुटविकटहेतुप्रमितिभाक् । उरुर्विशालः । वाशब्दश्चकारार्थे । अहो इत्यामन्त्रणे । पाता त्रायकः । पदघनगरीयान् पदधनोऽर्थनिबिडः गरीयांश्च महत्त्वयुक्तः । यद्वा पदेषु वाक्यावयवेषु घनश्च गरीयांश्च ।।
विपक्षव्यूह वो दलयतु गदाक्षावलिधरा
समा नालीकालीविशदचलना नालिकवरम् । समध्यासीनाम्भोभृतघननिभाम्भोधितनया
समानाली काली विशदचलनानालिकबरम् ॥ ८४ ॥ काली देवी वो युष्माकं विपक्षव्यूह प्रतीपपटलं दलयतु पिनष्टु । किंविशिष्टा । गदा आयुधविशेषः अक्षावलिरक्षमाला च ते धरतीति । असमा रूपैश्वर्यादिना अनन्यसदृक् । नालीकानां कमलानामाली श्रेणी तद्वद्विशदौ निर्मलौ चलनौ पादौ यस्याः सा। नालिकवरं प्रधानकमलं समध्यासीना अधिरोहन्ती अधिरूढा वा । अम्भोभृतः पय:पूर्णो यो घनो मेघस्तस्य निभा कृष्णवर्णवात्समा । अम्भोधितनयासमाना लक्ष्मीतुल्या आल्यः सख्यो यस्याः। विशन्तो लीयमाना अचलाः स्थिरा नाना बहुविधा येऽलयो भ्रमरास्तैः कबरं मिश्रम् । खचितमित्यर्थः । इदं नालिकवरस्य विशेषणम् ॥
चिक्षेपोर्जितराजकं रणमुखे यो लक्षसंख्यं क्षणा
दक्षामं जन भासमानमहसं राजीमतीतापदम् । तं नेमि नम नम्रनिर्वृतिकरं चक्रे यदूनां च यो
दक्षामञ्जनभासमानमहसं राजीमतीतापदम् ॥ ८५ ॥ यो नेमिजिनो लक्षसंख्यं लक्षप्रमाणमूर्जितराजक बलवद्राजवृन्दं रणमुखे चिक्षेप बभञ्ज । क्षणाद्वेगेन । राजकं किंभूतम् । अक्षाममुपचितम् । हे जन, तं नेमि नम । किंभूतम् । भासमानं कान्तिकदम्बेन दीप्यमानं जनैर्भासमानं वा । अहसं हास्यमुक्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org