________________
काव्यमालो।
राजीमत्या राजकन्यायाः प्रव्रज्याग्रहणेन मनोरथविफलीकरणात्तापम् पश्चात्तु मुक्तिसुखप्रदम् । नम्राणां निवृति मुक्तिं सुखं वा करोतीति । यश्च स्वामी यदूनां यादवानां दक्षां राजी श्रेणिं अतीता अतिक्रान्ता आपदो यया सा तामतीतापदं चक्के कृतवान् । नेमि किंभूतम् । अजनस्य भया कान्त्या समानं तुल्यं महस्तेजो यस्य ॥
प्रात्राजीज्जितराजका रज इव ज्यायोऽपि राज्यं जवा
द्या संसारमहोदधावपि हिता शास्त्री विहायोदितम् । यस्याः सर्वत एव सा हरतु नो राजी जिनानां भवा
यासं सारमहो दधाव पिहिताशास्त्रीविहायोऽदितम् ॥ ८६ ॥ या उदितमुदयं प्राप्तं ज्यायोऽपि अतिप्रौढमपि राज्यं रज इव विहाय प्राबाजीत् प्रत्रज्यामग्रहीत् । किंभूता। जितं राजकं राजसमूहो यया सा । संसारमहोदधौ भवमहार्णवेऽपि हिता सुखकारिणी । शास्त्री शिक्षयित्री । यस्याश्च सर्वतः सर्वासु दिक्षु सारमहो सारतेजो दधाव प्रससार । किंभूतम् । पिहिता आच्छादिता आशास्त्रियो दिग्वनिता विहाय आकाशं च येन तत् । अदितमखण्डितम् । सा जिनानां राजी भवायासं संसारक्लेशं नोऽस्माकं हरतु ॥
कुर्वाणाणुपदार्थदर्शनवशाद्भावत्प्रभायास्त्रपा___ मानत्या जनकृत्तमोहरत मे शस्तादरिद्रोहिका। अक्षोभ्या तव भारती जिनपते प्रोन्मादिनां वादिनां
मानत्याजनकृत्तमोहरतमेश स्तादरिद्रोहिका ॥ ८७ ।। हे जिनपते, तव भारती वाणी मे मम अरिद्रोहिका बाह्याभ्यन्तरशत्रुजयकारिणी स्ताद्धयात् । किंविशिष्टा । अणवः सूक्ष्माः पदार्थी जीवाजीवादयस्तेषां दर्शनवशात्प्रकाशनात् भास्वत्प्रभायाः सूर्यकान्तेस्त्रपां लज्जां कुर्वाणा । आनत्या प्रणामेन हेतुभूतया जनानां कृत्तश्छिन्नो मोहो रतं च येन तस्य संबोधनम् । शस्ता प्रकृष्टा अदरिद्रा आन्या ऊहास्तको यस्याः सा अदरिद्रोहिका । अक्षोभ्या अपराभवनीया । प्रोन्मादिनां दर्पवतां परवादिनां मानस्याहंकारस्य त्याजनं मोक्षणं करोतीति । अतिशयेन तमो हरतीति तमोहरतमा । हे ईश नेतः ॥
हस्तालम्बितचूतलुम्बिलतिका यस्या जनोऽभ्यागम
द्विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् । सा भूतिं वितनोतु नोऽर्जुनरुचिः सिंहेऽधिरूढोल्लस
द्विश्वासे वितताम्रपादपरताम्बा चारिपुत्रासकृत् ॥ ८८ ।। यस्या अम्बाया जनो लोको विश्वेन जगता सेवितयोस्ताम्रयो रक्तयोः पादयोश्चरणयोः परतां तदेकशरणतामभ्यागमज्जगाम साम्बा नोऽस्माकं भूतिं संपदं वितनोतु । किंभूता। हस्ते आलम्बिता चूतलुम्बिरेव लतिका यया सा । वाचा वाण्या रिपूणां त्रासं करोतीति । अर्जुनं काञ्चनं तद्वद्रुचिः कान्तिर्यस्याः सा । सिंहे कण्ठीरवेऽधिरूढा आसीना । उल्लसन् प्रसरन् विश्वासो यस्माद्यस्य वा । विततो विपुलो य आम्रपादपश्चूतवृक्षस्तत्र रता। चारिणौ 'विहरणशीलौ पुत्रौ यस्याः सा । असकृन्निरन्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org